Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 363
________________ (३१८) श्रीकल्पसूत्रार्थप्रबोधिनी. भोजराजकृतव्याकरण-तर्कालङ्कार-वैद्यक-ज्योतिर्वास्तुशास्त्राऽध्यात्मशास्त्रसंग्रहमवलोक्य नवीनव्याकरणादि निर्माप्य सङ्ग्रहीतुंमनसि चकमे। ततो राजा गुर्जरीयाऽनेकविदुषः समाकार्य निजेच्छां व्यानञ्ज । परन्तु तदानीन्तनानां गुर्जरीयविपश्चितामीदृशः कोऽपि नाऽऽसीत् , यो हीदृशं सर्वाङ्गीणं नव्यं व्याकरणं रचयेत । अत एतत्सम्पादनाय सर्वे हेमचन्द्रस्यैव नामाऽब्रुवन् । तदनु सिद्धराजस्य महत्या प्रार्थनया हेमचन्द्रसूरिः सिद्धहेमशब्दानुशासनं नामाऽपरं व्याकरणं निरमिनोत् । पुनरेतल्लघुवृत्ति-बृहद्वृत्ति-धातुपाठ-लिङ्गानुशासनाद्युपयुक्तान्यङ्गानि निर्माय समलङ्करोच्च । ततः सिद्धराजो नियतीकृतलेखकशतत्रय्या तस्या बह्वीः प्रतिलिपीरलेखयत् । तासु विंशतिं काश्मीरे सरस्वतीभाण्डागारे, शेषाश्चाङ्ग-वङ्ग-कलिङ्ग-लाट-कर्णाट-कोकन-सौराष्ट्र-महाराष्ट्र-कच्छमालव-सिन्धु-सौवीर-नेपाल-पारसीक-मुरुण्डक-गङ्गापार-हरिद्वारकाशी-चेदि-गया-कुरुक्षेत्र-गौड-कामरूप-सपादलक्ष-जालन्धर-सिंहल-महाबोधादिदेशेषु प्रेषीत् । एतदभिनवव्याकरणपठनपाठनार्थ गुरोरादेशेन काकलाख्यं कायस्थं व्याकराणादिविविधशास्त्राऽध्यापनपटीयांसं न्ययुक्त । प्रतिमासश्च शुक्लपञ्चम्यां परीक्ष्य समुत्तीर्णच्छात्रेभ्यः स्वर्णाभूषणानि ददते स्म स भूजानिः । सम्पूर्ण तदधीत्य पाण्डित्यं सम्पाद्य गृहं गच्छतस्ताञ्छिबिकासनच्छत्रस्वर्णाभरणादिप्रदानेन सत्कुर्वन्नासीच्च । अतस्तत्पठनपाठनपरिपाटी सर्वत्र वरीवृधाश्चके । ____ इत्थं हेमचन्द्रसूरे राजसत्कृति दर्श दर्श मनसि दोदूयमाना भूसुराः सिद्धराजं ततो निवर्तयितुं यथाशक्ति प्रयेतिरे । अथैकदा हेमचन्द्रसूरिश्चतुर्मुखचैत्ये व्याचक्षाणो बहुषु जैनजैनेतरश्रोतृवर्गेषु शृण्वत्सु पञ्चापि पाण्डवानां शत्रुञ्जयगिरौ सिद्धिगमनमब्रवीत् । तदाकर्ण्य तवेषिणो ब्राह्मणा राजानमब्रुवन्-राजन् ! विरुद्धमिदं भाषते सूरिः, यतो महाभारते कृष्णद्वैपायनो वेदव्यासस्तेषां स्वर्गमनं हिमाचलोपरि निजगाद। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408