Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 355
________________ ( ३१० ) श्री कल्पसूत्रार्थप्रबोधिनी. निर्माप्य तत्प्रतिष्ठां व्यधत्त । प्रान्ते च श्रुतोपयोगतः स्वायुःक्षयं विदिवा गुरुसेवायां तिष्ठन्नसौ हरिभद्राचार्यः समाधिना स्वरगात् । बभूवांश्चैष वादी, प्रावचनिको, नैमित्तिकः, प्रभावकश्च ! विचारसारप्रकरणजैनपट्टावली लेखानुसृत्या विक्रमसं० ५८५ तमेऽब्दे स्वर्गमनमभूदेतस्येति प्रतीयते । परमेतद्विरचितग्रन्थेषु धर्मकीर्त्ति - कुमारिलप्रमुखानां नामोलेखो वर्वर्त्ति, समुपलभ्यते च जिनभद्रगणिक्षमाश्रमणरचित - विशेषाऽऽवश्यकभाष्यादिग्रन्थाऽवतरणम् । अत एतस्य स्वर्गवाससमयो विक्रम सं० ७८५ इत्येव निश्वेतव्यः । विद्याधराऽन्वयजनिमानयमन्तिमः श्रुतधरो बभूवेति विदाङ्कुर्वन्तु सुधियः । द्वितीयो हरिभद्रसूरिर्वैक्रमीये २६२ तमे हायने बभूव । तदन्तेवासी सिद्धर्षिगणी बौद्धानां समीपमे कविंशतिवारान् गमाऽऽगमौ व्यधव। तत्प्रतिबोधाय ललितविस्तराऽऽख्य शक्रस्तववृत्तिं रचितवान् । तृतीयस्तु विक्रमस्य द्वादशशताब्द्यामभूत् । एतद्रचित- मुनिपतिचरित्रादयो ग्रन्था अद्याप्युपलभ्यन्ते । - एवं जिनभद्रगणिक्षमाश्रमण-शीलाङ्काचार्याऽभयदेवसूरि-मलयगिरिप्रभृतयष्टीकाकाराः स्थविराः सकला अपि मान्यतमा अभूवन् । अबोभोच्च पादलिप्ताचार्यः, येन पादलेपादाकाशे समुड्डीय शत्रुञ्जयगिरनार – नन्दिगिर्यष्टापद — सम्मेतशिखरादिबहुषु तीर्थेषु गत्वा जिनांश्च वन्दित्वा पारणमकारि : बोभवाञ्चकार श्रीबप्पभट्टिसूरिर्येन प्रतिबोधितो गोपनगराधिपतिरामराजस्तदुपदेशाच्छत्रुञ्जय तीर्थं समुद्दधे । अथाभिग्रहवतो व्रजतस्तस्य बप्पभट्टिसूरे स्तमभिग्रहं खिवरसंडीनगरे शत्रुञ्जयावतारप्रासादं प्रतिमापादुकाभ्यां विभूषितं प्रदर्श्य देवता पूरयामास । तत आमभूभुजा गोपनगरे वसूत्तरशतदन्तिदघ्नप्रासादं निर्माय तत्राष्टादशभारस्वर्णमयी सर्वार्थसम्पद्विधायिनी श्रीवीरविभोः प्रतिमा स्थापिता । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408