Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 353
________________ ( ३०८) श्रीकल्पसूत्रार्थप्रबोधिनी. थाऽकरोत् । इतश्च समागतास्ते सुभटा उचितवाणावलीभिः शरीरं चालनीकल्पं विधाय प्रान्ते हंसं मारयित्वा समागत्य च शूरपालराजान्तिकं परमहंसं ययाचिरे, परमेनं नरपति ऽदात् । प्रान्ते शूरपालनृपतेः समक्षं परमहंसेन सत्रा शास्त्रचर्चा निरधारि । तदोपतस्थिरे चाऽतिप्रौढाः सौगताचार्याः शास्त्रार्थचिकीर्षया । परममूनशेषांस्तदम्बादेवीदर्शितयुक्त्या परमहंसः सुचिरं तैः सत्रा चर्चा कृत्वा व्यजेष्ट । तदनु शूरपालनरपालाऽनुज्ञात: परमहंसश्चित्रकूटे स्वगुरोर्हरिभद्रसूरेरभ्यर्णमागात् , तत्र च सौगतनगरगमनं, तत्कृतां परीक्षाम् , ततः पलायनम् , मार्गे हंसस्य मरणम् , शूरपालनरपतिकृतस्वरक्षणम् , तत्समक्षं बौद्धाचार्याणां शास्त्रार्थे पराजयकरणम्, पुनश्चित्रकूटाऽऽगमनान्तं कथयन्नयमपि प्राणं तत्याज । एतदुभयसच्छिष्याऽकालमरणसातप्रभूतदुःसहदुःखेन चोकुपितो हरिभद्राचार्यस्तदैव ततो विहृत्य शूरपालक्षितिपतेः समीपमागतवान् । अत्र च शास्त्रार्थचिकी पालेन समस्तानपि बौद्धाचार्यानजूहवत् । तेऽपि तूर्णमेव तत्रोपतस्थिरे । ततो राजसभायां मिथःशास्त्रार्थः प्रावर्तत। प्रान्ते तानशेषानसौ जिगाय, परमियतैव क्रोधाग्निर्न शशाम, अत एव महामन्त्रं प्रयुज्यैकैकशस्तान् सौगतान् सशिष्यगणान् सन्तप्ततैलपूर्णकटाहे पातं पातं निजशिष्ययुगलघातजातशुचः कृताऽऽर्हतप्रतिमाऽऽशातनायाश्च प्रतीकारं विधातुं लग्नः। एतदवद्यकृत्यं कथमपि विदित्वा जिनभद्रसूरिस्तदुपशमार्थं समरादित्यभवदर्शकगाथात्रयं लिखितपत्रं १ हरिभद्राचार्यस्य सर्वशास्त्रकुशलौ जिनभद्र-वीरभद्रनामानावुभौ शिष्यावास्ताम् । तदा तत्र चित्रकूटे सौगता अपि प्राचुर्येणाऽवर्तन्त. परमेते हरिभद्राचार्येण सापत्न्यमधृषत ; अतएव गुप्त्या युक्त्या च तदुभयशिष्यो ते घातितवन्तः । एतद्रहस्यं कथश्चिद्विदित्वा चेखिद्यमानः स सूरिस्तदैव निरशनचिकीरभवत्परन्तु सङ्घप्रार्थनया तकृस्वा शिष्यसन्तत्यामिधाsनेकग्रन्थरचनायामेव मनो न्ययुक्त । इत्यलेखि भद्रेश्वरकथाबली ( प्राकृतभाषामय ) ग्रन्थे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408