Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 352
________________ नवमं व्याख्यानम् । ( ३०७ ) अतस्तदुपायं सुगमं ब्रूहि । गुरुणोक्तम् - एवमस्ति चेत्तर्हि सर्वपापनिवृ त्तिलक्षणं श्रामण्यं भज । ततोऽसौ तद्ग्राहिणीं स्वेच्छां व्यानञ्ज । तदैव गुरुस्तस्मै श्रामणीं दीक्षामदात् । ततो जैनागमेषु प्रावीण्यमीयिवांसमेनं जिनदत्तसृरिराचार्यपदं प्रदाय स्वपट्टधरमकृत । अथ हरिभद्रसूरिर्गुर्वादेशेन पृथिव्यां सर्वत्राप्रतिबद्धविहृत्याऽनेकभविकजीवान् धर्म्यान् कृतवान् । एकदा स्वजनानां कर्कशगिरा संसारविमुखौ चिन्तितौ निजभागिनेयौ हंसपरमहंसौ तत्राऽऽगत्य विधिवदद्भिवन्य तमूचाते - आवां संसाराऽसारतां जानानौ तत्स्थित्या विरक्ताबभूव । गुरुराचष्ट यद्येवमेवाऽस्ति, तर्हि दीक्षां गृह्णीतम् । ततस्तयोर्दीचां दत्त्वा ' जिनभद्र ' ' वीरभद्र ' इत्यभिधामकुरुत । कृतवाँश्चतौ व्याकरणतर्कादिशास्त्रेषु निष्णातौ । तत इमौ सौगताऽऽगमपिपठिषया गुरुणा वारितावपि बौद्धान्तिकमगच्छताम् । स्थित्वा च तन्मठे स्तोके - नैवाऽनेहसा तदागमानधीत्य कुशाग्रसमधियो बलेन समस्ताऽध्येतृणामग्रेसरौ जातौ । ततः किमेतौ सौगतावान्यमतीयो वेति संशयानो मठपतिस्तद्विनिश्वेतुकामेनैकत्रभवने परीक्षादिनं नियम्य सर्वां छात्रानादिध्वान्–' यद्भवद्भिः सर्वैरिह परीक्षासदने द्वारि स्थितां जिनमूर्त्ति पदम्यां स्पृशद्भिरन्तः प्रवेष्टव्यम्, यश्चैवं न करिष्यति, स प्राणदण्डं भोक्ष्यति । ततः सर्वे छात्रास्तथैव तत्र प्रविविशुः, हंस- परमहंसौ तु मनसि बहुधा विमृश्य प्रतिमाया हृदये खटिकया रेखाश्रयं विधाय, तदुपरि चरणौ निधाय तदादेशं प्रत्यपालयताम् । तद्विलोकमानो मठपतिर्मनास निरचिनोत् ' यदेतो जैनौ स्तः ' ततो मठपतिरेतौ हन्तुं प्रयतमानोऽभवत् । एतत्स्वरूपं विदित्वा तौ हंस - परमहंसौ ततो निरैताम् । सौगताः सुभटाश्च कूरास्तत्पृष्ठे दधाविरे । समीपमागच्छतस्ता नालोक्य हंसः परमहंस वाच- त्वमरं धावित्वामुष्मिन्नासन्नग्रामे शूरपालनरपतिशरणे याहि, अहमेक एव तावत्सुभटैर्योत्ये परमहंसस्त Jain Education International For Private & Personal Use Only " www.jainelibrary.org

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408