Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 336
________________ नवमं व्याख्यानम् । १२६ आर्यरक्षितसूरि-निबन्धः स्थविरा: प्रस्तुतपट्टावल्यां यद्यप्यार्यरक्षितादीनां नाम नोदलेखि, परमेते श्रुतधराः शासनप्रभावकाश्चाऽऽसन् । अतपवैषामपि प्रासङ्गिकं किञ्चित्स्वरूपं ग्रन्थान्तरादिह लिख्यते । अथ मालवे जनपदे दशपुरे ( मन्दसोरनगरे) नरपतिरुदयनाभिघ आसीत् । तस्य च पुरोहितः सोमदेवाऽऽख्यस्तत्पत्नी च रुद्रसोनाऽभिधाना तत्रैव न्यवात्सीत् । अमुष्याऽऽर्यरक्षित फल्गुरक्षिताऽभिधौ पुत्रात्रभूताम् । द्वावपि वेदाङ्गादिविद्यासु पारदृश्वानौ जातौ । ज्यायांश्च पाटलीपुत्रनगरं गत्वा वेदोपनि पदोवैशिष्ट्येन नैपुण्यमधिजग्मिवान् । ततो गुरुमापृच्छच गृहाSSतमेनं भूपतिर्महताऽऽडम्बरेण पौरजनैः सत्रा पुरं प्रावेश्य सदकरोत् । नृपतिदत्तमानपत्रेण सह निजसदनमागत्य पित्रादीन् प्रणम्य मातरं प्रणनाम । सा च विच्छायवदना सती स्वागतमात्रमापृच्छय मौनमशिश्रियत 1 ततस्तां हर्षस्थानेऽप्युदासीनामुपलक्ष्य तत्कारणमप्राक्षीत् माताऽभ्यधात् पुत्र ! यान्येतानि शास्त्राण्यध्यगीष्ठास्तानि सर्वाणि हिंसाप्राधान्याद गर्हितानि संसारपरिवर्धकान्येव सन्ति, तदध्ययनेन मे कथङ्कारं हर्षो जायेत ?, चेदात्मविशोधकं भवसन्ततिच्छेदकरं च दृष्टिवादमधीत्य समायातो भवेस्तर्हि मनो मे मोमुद्येत । तेनोक्तम् - मातः ! इदानीमपि तवाऽऽज्ञां परीतुं शक्नोमि, परन्तु तदध्यापयिता कः कुत्र च वरीवर्ति ? । माताऽत्रदत्-एतत्पाठयिता तोसलीपुत्र जैनाचार्य इतः कियद्दूरे इक्षुवाटके सपरिवारो निवसति तदन्तिकं गत्वा तमधीष्व । मातुरादेशं शिरसि निधाय प्रत्यूषस्येव स गृहान्निरगात् । अधिमार्ग कश्चिदेकः सार्धनवेक्षुपाणि: पितृसखो विप्रोऽमिलत् । सोऽतिप्रेम्णा तं जगाद वत्स ! त्वदर्थमेवैतानि क्षूनानयम् । अमुना शकुनेनेयन्मात्रमेव तदध्यायं परिच्छेदं वाऽध्येतुं शक्ष्यामि, नाधिकमिति निश्चिन्वानः स विप्रं मातुरन्तिकं यातुं संप्रार्थ्याऽ Jain Education International ( २६१ ) 1 १ - सोऽवक् - मान्यतम ! अमीक्षत्रो मे मात्रे देयाः, अहमधुना किमपि कार्यचिकीर्षु रन्यत्र व्रजामि । द्विजोऽपि तत्सदनमेत्य जनन्यै तानिक्षून् दत्त्वा सर्वमाचचक्षे । तदा तद्म्बा निरचिनुत-यन्मे शिशुः साधिकनवपूर्वाण्यध्येतेति, एवमुपदेशप्रासादग्रन्थेऽलखि । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408