Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 328
________________ नवमं व्याख्यानम् । ( २८३ ) विक्र० ३४ तमे वर्षे दीक्षा, वीर० ५४८ विऋ० ७६ तमे हायने युगप्रधानपदातिः, वीर० ५८४ विक्र० ११४ तमे वत्सरे स्वर्गवासो जज्ञे । सुहस्तिसूरिवज्रस्वामिनावन्तरा १ गुणसुन्दरसूरि - २ कालिकाचार्य - ३ स्कन्दिलाचार्य - ४ रेवतिमित्र - ५ धर्मसूरि- ६ भद्रगुप्ताचार्य - ७ श्रीगुसाचार्या एते युगप्रधाना बभूवुः, इति कियत्यः पट्टावल्यो निगदन्ति । C ; वज्रसेनसूरिरपि विहरन् क्रमशः सोपारकं नगरमागत्य, जिनदत्तमहेभ्यस्य पत्न्या ईश्वरीश्राविकायाः सदने समायातः । तमायातं त्रिलोक्य प्रहृष्यन्ती सा यथावदभिवन्द्य तमाख्यत् —' स्वामिन् ! सत्यपि धनप्राचुर्ये लक्षमूल्यदानेनाऽप्यन्नं नैव लभ्यते, तद्विनामितैर्धनैरप्यलम् । अमुनैव कष्टेनाऽयाऽहं महता यत्नेन लक्षमूल्यैः शेटकतुरीयपादमितं तण्डुलं प्राप्य, पक्त्वा तत्र च विषं संमिश्रय तदशनात्सपरिवारो मुमूर्षुरस्मि । ' इत्याकर्ण्य वज्रसेनसूरिणोक्तम् - धर्मशीले ! एवं माकृथाः, धीरा भव, यतो वज्रस्वामिना पुरैवमवादि यदा लक्षमूल्य प्राप्तयत्किञ्चिदन्नपाकाय चुलिकोपरि चटितां हण्डिकां द्रक्ष्यसि तव सुभिक्षो भविता ' अत एनां कदिच्छां विजहाहि । ईश्वरी जगाद - भवदुक्तं प्रमाणमेव तत्र मनागपि नाऽहं संशये, परमेष प्रासुकाऽऽहारस्तत्रभवता गृह्यताम् । तदत्याग्रहात्सूरिस्तमग्रहीत् । ततो दिनान्तप्रायवेलायामेव समुद्रतीरे धान्यभृतां पोतानां पञ्चशती समागच्छत् । सर्वे लोका यथायोग्यं धान्यानि क्रीत्वा स्वास्थ्यं प्रापुः । जिनदत्तमहेभ्यो भार्यया नागेन्द्रनिर्वृति-चन्द्र-विद्याधराख्यैश्चतुर्भिः पुत्रैश्च सत्रा वैराग्यभावेन वज्रसेनाचार्यपार्श्वे दीक्षामादत्त । तेषां नागेन्द्रादयश्चत्वार आचार्यपद भाजः किञ्चिदूनदशपूर्वरा जाताः, अमीभ्य एव नागेन्द्री-नैर्वृती - चान्द्री - वैद्याधरीति चतस्रः शाखा निरगच्छन् । आर्यवज्रसेनो नन्दवर्षाणि १ ते पोता युगन्धरी ( जुआर ) धान्यैर्भृता इत्यपि कचिद् दृश्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408