________________
नवमं व्याख्यानम् ।
( २८३ ) विक्र० ३४ तमे वर्षे दीक्षा, वीर० ५४८ विऋ० ७६ तमे हायने युगप्रधानपदातिः, वीर० ५८४ विक्र० ११४ तमे वत्सरे स्वर्गवासो जज्ञे । सुहस्तिसूरिवज्रस्वामिनावन्तरा १ गुणसुन्दरसूरि - २ कालिकाचार्य - ३ स्कन्दिलाचार्य - ४ रेवतिमित्र - ५ धर्मसूरि- ६ भद्रगुप्ताचार्य - ७ श्रीगुसाचार्या एते युगप्रधाना बभूवुः, इति कियत्यः पट्टावल्यो निगदन्ति ।
C
;
वज्रसेनसूरिरपि विहरन् क्रमशः सोपारकं नगरमागत्य, जिनदत्तमहेभ्यस्य पत्न्या ईश्वरीश्राविकायाः सदने समायातः । तमायातं त्रिलोक्य प्रहृष्यन्ती सा यथावदभिवन्द्य तमाख्यत् —' स्वामिन् ! सत्यपि धनप्राचुर्ये लक्षमूल्यदानेनाऽप्यन्नं नैव लभ्यते, तद्विनामितैर्धनैरप्यलम् । अमुनैव कष्टेनाऽयाऽहं महता यत्नेन लक्षमूल्यैः शेटकतुरीयपादमितं तण्डुलं प्राप्य, पक्त्वा तत्र च विषं संमिश्रय तदशनात्सपरिवारो मुमूर्षुरस्मि । ' इत्याकर्ण्य वज्रसेनसूरिणोक्तम् - धर्मशीले ! एवं माकृथाः, धीरा भव, यतो वज्रस्वामिना पुरैवमवादि यदा लक्षमूल्य प्राप्तयत्किञ्चिदन्नपाकाय चुलिकोपरि चटितां हण्डिकां द्रक्ष्यसि तव सुभिक्षो भविता ' अत एनां कदिच्छां विजहाहि । ईश्वरी जगाद - भवदुक्तं प्रमाणमेव तत्र मनागपि नाऽहं संशये, परमेष प्रासुकाऽऽहारस्तत्रभवता गृह्यताम् । तदत्याग्रहात्सूरिस्तमग्रहीत् । ततो दिनान्तप्रायवेलायामेव समुद्रतीरे धान्यभृतां पोतानां पञ्चशती समागच्छत् । सर्वे लोका यथायोग्यं धान्यानि क्रीत्वा स्वास्थ्यं प्रापुः । जिनदत्तमहेभ्यो भार्यया नागेन्द्रनिर्वृति-चन्द्र-विद्याधराख्यैश्चतुर्भिः पुत्रैश्च सत्रा वैराग्यभावेन वज्रसेनाचार्यपार्श्वे दीक्षामादत्त । तेषां नागेन्द्रादयश्चत्वार आचार्यपद भाजः किञ्चिदूनदशपूर्वरा जाताः, अमीभ्य एव नागेन्द्री-नैर्वृती - चान्द्री - वैद्याधरीति चतस्रः शाखा निरगच्छन् । आर्यवज्रसेनो नन्दवर्षाणि
१ ते पोता युगन्धरी ( जुआर ) धान्यैर्भृता इत्यपि कचिद् दृश्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org