________________
( २८२)
श्रीकल्पसूत्रार्थप्रबोधिनी. तदैव सुभिक्षो भविता। ततो गुर्वादेशेन वज्रसेनसूरिः कोकणदिशि ययौ । वज्रस्वामी च सम्प्राप्ते दुर्भिक्षे स्वसाधून विद्यापिण्डं भोजयित्वा जगाद-भोः ! द्वादश वर्षाणि विद्यापिण्डाऽशनादनशनमेव सर्वेषां श्रेयस्करं मन्ये । तच्छ्रुत्वा सर्वेषु साधुषु तथाकर्तुमुद्यतेषु वज्रस्वामी तैः सह कस्यचिद् गिरेर्दिशि ब्रजन्मार्गे दीक्षार्थिनं कमपि बालकं दीक्षयित्वा व्याजहे-वयं सर्वेऽनशनं चिकीर्षवः पर्वतोपरि बजामः, शिशुत्वान्मृदुत्वाच्च त्वमत्रैव तिष्ठ । एवं गुरुणाऽभिहितोऽपि बालमुनिः सहैव गन्तुमाजगृहे, परन्तु कथमपि तं तत्रैव मुक्त्वा ते सर्वे पुरोवर्तिनगोपरि ययुः । तदनु सोऽपि समागत्य तस्यैव गिरेरधस्तात्पाषाणशिलोपरि पादपोपगमनमनशनं विधाय, शुभध्यानेन मृत्वा देवोऽभवत्। वज्रस्वामी श्रुतोपयोगेन सर्व विदित्वा, साधूनामग्रे तं भृशं प्रशस्य सर्वैः साधुभिः सह निरवद्यभूमावागत्याऽनशनं विदधौ । उपेक्षितजीवितमरणास्ते सकलाः समाधिना कालं कृत्वा देवलोकमापुः। प्राक्तनस्नेहादिन्द्रादयो देवा रथाऽऽरूढास्त्रि प्रदक्षिणीकृत्यैनं ववन्दिरे । रथावर्त्तनात्तगिरे ' रथावत' नाम लोके प्रासिध्यत् । अमुष्मिन् स्वर्गते दशमः पूर्वस्तुर्यार्धनाराचसंहननं च व्यच्छिदत् । इत्थं वज्रस्वामी कौटिकगणीयो दशपूर्वधारिणां चरमः, शैशवादेव जातिस्मृतिमान् , प्रावचनिकत्वधर्मकथित्व-विद्याबलित्वेन महाप्राभाविकश्च बोभोति स्म । अमुष्मात् 'अजवइरी' (आर्यवनी ) शाखा प्राकट्यं प्राप । असौ युगप्रधानपट्टावलीग्रन्थानुसारेण प्रथमोदयस्याऽष्टादशो युगप्रधानो बभूवान् । अमुष्य वीरनिर्वाणतः ४९६ विक्रमीये च २६ तमेऽब्दे जन्म, वीर० ५०४
१-असौ गिरिः प्रायो दक्षिणमालवदेशीयां विदिशा (भिसा) समया फिलाऽऽसीत् । श्राचाराङ्गनियुक्तौ ' रहावत्तनगं' इत्युल्लेखात्। आचाराङ्गनियुक्तिरचयिता श्रुतकेवली भद्रबाहुस्वामीति मन्येत, तर्हि वनस्वामिनः स्वर्गमनात्प्रागपि स गिरीरथावर्त्तनामाऽऽसीदिति सङ्गच्छेत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org