________________
नवमं व्याख्यानम् ।
(२८१) दाकाशगामिनी विद्यामुद्धृत्यैकस्मिन् महापटे शय्यातरेण सहितं श्रीसद्धं समुपावेश्य व्योमवर्मना महापुरी निनाय । तत्र च सौभिक्षेण सकल: सङ्घः सुखेन दिनानि गमयन्नासीत् । तत्रत्यो राज्ञा सौगतत्वात्पर्युषणपर्वादिदिनेऽपि पुष्पाणां त्रोटनं निषिषेध । अतो भगवदर्चा) पुष्पाणि लातुं बाधितः सङ्घः श्रीवज्रस्वामिनमाख्यातुमलगत्-प्रभो ! अत्र तु राज्ञा पुष्पाऽऽदानं सर्वथा प्रत्यरोधि, अतः प्रभोरर्चनं कथं कुर्याम् ?, वज्रस्वामी तदाकर्ण्य सङ्घमाश्वास्थ तारापथेन माहेश्वरी पुरीमीत्वा, क्षुल्लकहिमवत्पर्वतोपरि लक्ष्म्याः पार्श्वमगात् । सा सहर्षं तस्मै सहस्रपत्रं कमलं ददौ, तल्लात्वा पुनर्माहेश्वरीमेत्य कुलसिंहाऽऽरामिकप्रदत्तविंशतिलक्षसुरभिसुमानि गृहीत्वा, जुम्भकरचितविमानाऽऽसीनो दैविकनृत्यगीतवाद्यानि शृण्वन् वज्रस्वामी पुन: हापुरीमागात् । तदा समस्तः सङ्घः प्रमोदभागभूत् । ततो महीयसा भावेन स संघः प्रभुमानर्च । अथैनां चमत्कृतिं वीक्ष्य समागतं सौगतं नरनाथं जनताभिः सार्धं प्रतियोध्य वज्रस्वामी जैनमकरोत् । एकदा स सूरिपुङ्गवो ग्रामानुग्रामं विहरन् दक्षिणदेशमागत्य, कस्यचिन्नगरस्य शुद्धोद्याने तस्थिवान् । तत्र च शैत्याधिक्यात्तस्य श्लेष्मा जातस्तच्छान्त्यै शुण्ठिकाभानाययाञ्चक्रे । अवशिष्टामेकां ग्रन्थि पुनश्चिखादिषया कर्णोपरि न्यधात् , परन्तु विस्मृत्या तां नाऽघसत् । सायन्तनप्रतिलेखनकाले मुखवस्नेगा. गानि परिमार्जन् अध:पतितां तामुदीक्ष्य दध्यो-अहो ! इयत्या विस्मृत्या ममायु: शेषो दुष्कालश्चामुष्मिन् वर्षे पतिष्यतीति सूच्यते । इत्यवधार्य वज्रसेनाभिधशिष्यस्याऽऽचार्यपदं प्रदाय, त्वमिदानी कोकणदेशदिशि याहि, इत्यादिश्य चाऽभ्यधात्-भोः ! यदा सुकालः कदा भवितेति कश्चित्पृच्छेत्तदैवं वाच्यम्-यर्हि लक्षमूल्यकीतं शेटकपादनभितं तण्डुलं पक्तुं कस्यापि वेश्मनि हण्डिकां चुह्निकोपरि स्थापयिष्यति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org