________________
( २८०)
श्रीकल्पसूत्रार्थप्रबोधिनी. ज्ञपन्-गुरो ! भवतः कृपया वज्रो वाचनादाने पटीयानस्ति, अतो नः सर्वेषां वाचनाचार्यमयमेव विधीयताम् । ततो गुरुर्वजमुनिं वाचनाचार्यमकरोत् । अथैनं वजमुनि दशपुर (मन्दसोर ) नगरादवन्तिकायां भद्रगुप्तसूरिपार्श्वेऽवशिष्टपूर्वाध्ययनार्थं प्रैषीद् गुरुः । ततः प्रस्थाय वज्रमुनिरुज्जयिनीपुरीमागत्य तां क्षणदां बहिरध्यतिष्ठत् । तस्यां रजन्यामेव भद्रगुप्तसूरिः स्वप्ने किलैवमपश्यत्-यन्मामकं क्षीरपूर्णपात्रं कोऽप्यतिथिरधासीत् । ततः प्राभातिकप्रतिक्रमणवेलायां स साधूनाचष्ट-भोः ! अहमस्यां रात्रावद्भुतं स्वप्नमद्राक्षम् , प्रग एव कोऽपि साधुरेष्यति, पठिष्यति च मत्पार्श्वे पूर्वान् । इति परस्पराऽऽलापो यावद् भवति, तावद् वज्रमुनिस्तत्राऽऽगत्य तमभिवन्द्य, गुरुप्रेषणादिवृत्तान्तमशेषं न्यवेदयत् । ततो भद्रगुप्ताचार्यस्तमाश्वास्य यथावत्पूर्वानध्याप्य दशपूर्वधरमकार्षीत् । ततः सिद्धान्तानुज्ञार्थमार्यसिंहगिरिपार्श्वे प्रैषीच्च । गुरुश्चानुयोगानुज्ञां दत्त्वा वज्रमुनेराचार्यपदं ददिवान् । पूर्वसङ्गतिदेवाश्च तत्र महामहं चक्रुः । अथ पाटलिपुत्राख्ये नगरे आर्यसिंहगिर्याचार्ये यां याते सति वज्रस्वामी सपरिवार आगात् । तत्र च साध्वीनां मुखारविन्दाद्वजस्वामिनो रूपं गुणाश्च श्रावं श्रावं जातानुरागा धनाभिधश्रेष्ठिनः पुत्री पितरं चचक्षे-पितः ! मदुद्वाहो वज्रस्वामिना सहैव विधीयताम् , यदहं तमेव प्रागवृणाम् । अन्यथा बहावेव प्रवेक्ष्यामीति तथ्यं जानीहि । ततः श्रेष्ठी लक्षदीनारसहितां स्वपुत्रीं वज्रस्वामिनः समीपमानीय प्रार्थयामास-भगवन् ! एषा मे दुहिता त्वामेव विवरीषति, अत एनां लक्षदीनारसहितां गृह्णीष्व । ततो वज्रस्वामी तां रुक्मिणी प्रतिबोध्य, विषयभोगविमुखीं च विधाय तत्कालमेव दीक्षां ददौ । तत्पिता च तद्दीनारलक्षं तदीयदीक्षामहे व्यत् ।
अथैकदा महत्यवग्राहे जाते चराचरप्राणिसंहारी भयङ्करो महादुष्कालः पपात । तदा वजस्वामी आचारागसूत्रीयमहपरिज्ञाऽध्ययना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org