________________
नवमं व्याख्यानम् ।
(२७९ )
अथैकदा विहरमाणो गुरुः पर्वताऽऽसन्नभूमावागतः । तत्र बालमुनिवज्रस्य परीक्षणाय प्राग्भवीयः कश्चित्सुरः कादम्बिनीं व्यचेक्रीयत । तदाऽकायिकरक्षाकृते गुरवो गिरिगुहामशिश्रियन् । तद्दिनं सकलं दुर्दिनतामाप, आसाराश्च तथा पेतुर्यथाऽचिरादेव सर्वं स्थलं जलमयं जज्ञे, तथापि मेघमाला न विरराम । गुरवः सहशिष्यैर्ज्ञानध्यानाभ्यामेव स्वमतर्पयन् । द्वितीयेऽहनि कादम्बिन्या विरामे सति स देवो वणिपेण तत्र प्रकटीभूय पारणायै वज्रमुनिं न्यमन्त्रयत् । गुर्वाज्ञया वज्रस्तत्राऽऽगत्योपयोगाद् देवपिण्डं विदित्वा तदत्यजत् । ततस्तुष्टो देवः प्रत्यक्षीभूय तं नमस्कृत्य स्वमन्तुं क्षमयामास । पुनरेकदा स एव देवो घृतपूरप्रतिलाभाय निमन्त्र्य वज्रमुनेः परीक्षणमकरोत्, तत्रापि स नैव त्रिचस्खाल । ततो देवः प्रसद्य तस्मै खेचरीं विद्यामदात् । एकदा गुरौ स्थण्डिलं गतवति तदितरमुनिगणे च गोचरीजलादि लातुं याते सत्येकाक्येव वर्त्तमानो वज्रमुनिः शैशवचापल्यवशात्सकलमुनिवराणामुपधीन् क्रमेण संस्थाप्य तेभ्यो गुरुदत्तश्रुतस्कन्धवाचना दातुमारेभे । तावद्बहिभूमेः परावृत्तो गुरुः पयोदानुकरीं वज्रमुनेर्वाचनागिरं निशम्य, निःसीमं प्रसद्य ' निसीहि ' इति तारतरेण स्वरेण व्याजहार । तच्छ्रुत्वा वज्रो द्रागुपधीन् यथास्थाने न्यस्य तदभिमुखमेत्य गुरोः पादौ पुंछयित्वा शुद्धोदकेन दधाव । ततो गुरुरमुष्याऽतिविनीतशिष्यस्य बुद्धिमान्द्यं न स्यात्, इति धिया शिष्यानवदत्-भोः ! अहमद्य नैकटिकं ग्रामं व्रजामि, द्विचतुर्दिनैरेष्यामि यूयमिहैव तिष्ठत । शिष्या ऊचुः - भगवन् ! तावन्नः को वाचनां दास्यति ? गुरुरूचे - वज्रमुनिस्तावत्सर्वेभ्यो वाचनां यथावद् दास्यति, इति व्याहृत्य गुरुर्जगाम । वज्रस्तेषां मुनीनां सौगम्येन दयाहिकीं वाचनामेकस्मिन्नेवाहनि परिपूर्णीचक्रे । एवं वाचनां ददाने वज्रे सर्वे साधवः पर्यतुष्यन् । ततः षद्भिर्दिनैरागतो गुरुस्तस्येदृशं वाचनादानमाकर्ण्य नितरां प्रससाद । सर्वे मुनयः सङ्घीभूय गुरुं व्यजि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org