________________
( २७८ )
श्री कल्पसूत्रार्थप्रबोधिनी.
लिकां गृहीत्वा वज्रोपमं भारमवगत्य ' वज्र ' इति तन्नाम चक्रे । तत्र तु मनागपि स नाऽरोदीत् । ततो गुरुस्तं बालं स्तन्यपानाद्यर्थं कस्याचिच्छ्राविकायाः समर्थ्याऽन्यत्र विजहार । सा च वज्रं पालनायां स्वापयित्वोपाश्रये समानीय साध्वीनां पार्श्वे बहुधा लालयन्ती पालयन्ती चाssसीत् । तत्र च साध्य एकादशाङ्गीं पौनःपुन्येनाऽऽवर्त्तयामासुः । तच्छ्रावं श्रावं पालनायां शयान एव वज्र एकादशाङ्गीं शिशिक्षे । ततो वज्रशिशोः शैशवलीलया मृदुवचनेन मनोरमया तन्वा च मोहिता सुनन्दा पुनस्तं वज्रं तामयाचत । साऽवोचत -सुनन्दे ! एष मे गुरुणा - दायि, अतोऽहं गुर्वाज्ञां विना ते जात्वपि नैव दास्यामि । तदवसरे गुरवोऽपि विहरन्तस्तत्राऽऽययुः । सुनन्दा स्वशिशुं तं ययाचे । धनगिरिरवादीत् भद्रे ! शिशुदानकाले यदवादीस्तरिक व्यस्मार्षीः १, यदस्मिन् साक्षिणोऽपीदानीं सन्ति । तदा गुरुसङ्घादिवर्गोऽपि तां बहुधाऽबोधयन् ; परन्तु सर्वेषां वच उपेक्ष्य सा नृपान्तिकमागत्य जगाद - राजन् ! साधवो मे शिशुं जगृहु:, ते न दित्सन्ति, तेभ्यो मे पुत्रं दापय । ततो भूभुजा समाकारितो गुरुः सङ्खेन सार्धं नृपतेः सदसि समेत्य यथा बालमग्रहीत्, तत्सर्वं राजानमवोचत । तदोभयोर्वाच्यं श्रुत्वा नरनाथो न्यायमकरोदेवम् भोः ! शृणुत, एष बालो निजेच्छया यदन्तिकं गमिष्यति, तस्यैव भविष्यतीति तथ्यं जानीत । तन्निशम्य प्रथमं सुनन्दा स्वपुत्रं नानाऽऽक्रीडनकमाभूषणं मिष्टान्नञ्च ग्रहीतुमाजुहाव, परन्तु तदिशमपि वज्रो नैक्षत । ततो धनगिरिर्धर्मध्वजमुन्नीय तमूचे - वत्स ! चारित्रं जिघृक्षसि चेदिदं धर्मध्वजं गृह्णीष्व । वज्रस्तदैव तद्धस्तात्तदादाय शिरसि धृत्वा नर्त्तितुं लग्नः । प्रमुदितः सङ्घो जय जयारवं व्यतत । गुरुर्वज्रं लात्वोपाश्रयमाययौ । ततः श्रेयसि लग्ने मुहूर्त्ते च शुभङ्करे महामहेन वज्रमदीक्षयद् गुरुः । तदा सुनन्दा व्यसृशत् - यद् भ्रातृ - पति - पुत्रेषु प्रव्रजितेष्वहमपि तदेव शरणं करवाणि चेद्वरमिति निश्चित्य सापि दीक्षामाददात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org