________________
नवमं व्याख्यानम् ।
(२७७ )
एतस्याऽऽर्य समितनामा पुत्रः सुनन्दाभिधा दुहिता चासीत् । अथैकदा सिंहगिर्याचार्यपार्श्वे संसारमेनमसारं जानान आर्यसमितः प्रवृद्धेन भावेन दीक्षामाददिवान् । प्रब्रजिते च पुत्रे धनपालः स्वपुत्रीं सुनन्दां योग्यतमेन बहुगुणनिलयेन महर्द्धिकेन धनगिरिणा महताग्रहेणोदवाहयत् । तामुद्वाह्य धर्मरसिको धनगिरिः संसारसुखं भुञ्जानस्तस्थिवान् । अथाऽष्टापदतीर्थोपरि गौतमस्वामिना प्रतिबोधितो वैश्रमणो देवश्युत्वा सुनन्दाकुक्षौ गर्भत्वेनोदपद्यत । अस्मिन्नवाऽवसरेऽतिवैराग्यभावेनोल्लसितमानसो धनगिरिराचार्यसिंहगिरिणा दीक्षितो बभूवान् । ततः पत्यौ दीक्षिते सुनन्दा पुत्रं प्रासोष्ट, सम्बन्धिनश्च तज्जननोत्सवं चक्रिरे । तदोक्तं केनापि चेदद्यैतत्पिता धनगिरिरत्र तिष्ठेत्, ततजननमहामहो महीयाञ्जयेत । इत्याकर्ण्य जातमात्रोऽपि शिशुः प्राक्तनसंस्कारयोगाद्दध्यौ । यदेतदपारसंसारनिस्तारः परमार्थविचारे संगममन्तरा जात्वपि नैव सम्भवति, इति मयाऽप्यमुष्मिन्नेव सुपथे वर्त्तितव्यम्, नो चेदधः पतिष्यामि, एवं विमृश्य स शिशुः स्तन्यं पिपासुः सातत्येन रोदितुं लग्नः । तत्प्रतीकारं शतशः कृत्वापि तदरोदनमपश्यन्ती व्याकुलीभूय कथमपि तन्माता षण्मासान् व्यत्यैत् ।
तत्रैकदा सिंहगिरिराचार्यः शिष्यगणैरनुगत इतस्ततो विहरन् समाययौ । गुर्वादेशेन धनगिरिरार्यसमितेन सत्रा गोचर्ये चचाल । गुरुणाऽभाणि - भोः ! वेदद्य गोचर्यां सचित्तमचित्तं मिश्रं वा लभ्येत, तर्हि दोषाऽदोषविमर्शमकृत्वैव तल्लातव्यम्, इति गुरुवचस्तथास्त्विति निगद्य सुनन्दासदनमगात् । साऽवक् भोः ! तावकोऽसौ डिम्भकस्त्वमेव गृहाण, यदजखं रोरुद्यते, तद्रोदनेनाऽहं भृशमुद्विग्नास्मि चेत्तवैव पार्श्वे स्थित्वाऽसौ सुखमनुभवेत्, तर्हि तत एव मनिष्ये ऽधिकं सुखमहमपि । धनगिरिस्तत्सखीः, तद्बन्धुमार्यसमितं च साक्षीकृत्य झोलिकायां तं शिशुं निधाय धर्मलाभं च दत्त्वा गुरोः पार्श्वमागात् । गुरुश्च तत्पाणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org