SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ (२७६ ) श्रीकल्पसूत्रार्थप्रबोधिनी. गार्हस्थ्ये ३० वर्षाणि, दीक्षायाम् २४ वर्षाणि, युगप्रधानपदे च ४६ वर्षाणि, एवं सर्वायुः शतवर्षाणि परिपाल्य, वीरनिर्वाणादेकनवत्याधिकद्विशततमे वर्षे स्वर्गमध्यगच्छत् । १२० श्रीसुस्थित-सुप्रतिबुद्धयोः कथा___आसुहस्तिसूरिपट्टे द्वौ शिष्यौ बभूवतुः-सुस्थितः सुप्रतिबुद्धश्च । तथाहि-चम्पापुरीवासिनौ राजवंशीयौ व्याघ्रापत्यगोत्रौ सुस्थित-सुप्रतिबुद्धौ सोदर्यावेतौ संवेगमधिगत्य श्रीमदार्यसुहस्तिपार्श्वे दीक्षामाददाते। बाहुल्येन कलिङ्गदेशे विहरतोरेतयोस्तद्देशीयः परमार्हतो भिक्षुराजभूपोऽतीवभक्तो बभूव । एतदुपदिष्टेनाऽमुना राज्ञा शासनोन्नतिकराणि धर्मकार्याणि विविधानि चक्रिरे । ध्यानस्थाभ्यामाभ्यां तद्देशे शत्रुञ्जयावतारापरनाम्ना प्रसिद्धस्य कुमारगिरेरुपरि कोटिकृत्वः सूरिमन्त्रमजापि, अतस्तदीयशिष्यसन्ततिः कौटिकी शाखामुपेयुषी । प्रान्ते द्वावपि निजपरिवारानिन्द्रदिन्नसूरये समर्प्य कुमारगिरौ निरशनेन वीरनिर्वाणतः ३२७ वर्षे स्वर्ग जग्मतुः । तत्र च भिक्षुराजभूपेन महामहं विधाय तदभिधानलेखनपूर्वको स्तूपौ कारितौ । एतयोः पट्टे श्रीइन्द्रदिन्नसूरिः कौशिकगोत्रः, तत्पट्टे आर्यदिन्नसूरिौतमगोत्रीयः, तत्पट्टे च श्रीसिंहगिरिसूरिः कौशिकगोत्रीयः समभवत्, स च जातिस्मृतिज्ञानवान् । तत्पट्टे आर्यवज्रसूरिगौतमगोत्रीयस्तत्पट्टे श्रीवत्रसेनसृरिरुत्कौशिकगोत्रीयो निषसाद । १२१ श्रीवज्रस्वामि-वज्रसेनयोः कथा___ इह खलु मालवदेशेऽवन्तिकाऽन्तिके तुम्बवनाभिधानं नगरं विलसति । तत्रैको धनाऽऽख्यो लक्ष्मीवाञ्छेष्ठी निवसति स्म। तस्य धनगिरिनामा सूनुरासीत् । तस्यामेव पुयाँ न्यवात्सीच्च धनपालः श्रेष्ठी। १-केचन २५१ वर्षे स्वरगादिति मन्वते । २ कचिच्च काकन्यां जातत्वात्काकन्दिकावित्यपि दृश्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy