________________
नवमं व्यास्थानम् ।
( २७३ )
धर्मकृत्यैरशेषामिमां पृथ्वीं प्रादिद्युतत्सः । विविधं करमपि मुमोच । साधुवेषेण निजभृत्याननार्यदेशे प्रेष्य तत्रत्याँल्लोकानार्यधर्मोपदेशेन धर्मज्ञाँश्च विदधे । तथा घृतगुडवस्त्रादिव्यापारिणः कान्दविकाँश्चादिशद्राजायद्भवन्तः सर्वे साधुभ्यः खल्वपेक्षितं वसनाऽशनादिकं विविधं ददन्ताम्, मूल्यं च तेषां राजकोषतो गृह्णन्तु, परमेतत्स्वरूपं साधवो न विजानीयुस्तथा सर्वैर्विधेयम् । तेन हेतुना सर्वे लोकाः साधून् वसनाऽशनादिविविधं प्रत्यहं प्रतिलाभयितुमारेभिरे । तेऽपि प्रासुकधिया ग्रहीतुं लग्नाः । एकदाऽऽर्यमहागिरिस्तानप्राक्षीत् - प्रत्यहमीदृशः सरसाऽऽहारः कथमानीयते ?, शिष्या ऊचुः - तत्कारणन्तु गवेषयन्तोऽपि वयं नाधिगच्छामः, हित्वैव तद्दोषान् गृह्णीमश्च । गुरुरुवाच- नूनमत्र केनापि कारणेन भवितव्यम्, तद्धेतुज्ञानाय यतितव्यम् । अन्यदा मोदकं खादन्तं शिशुमेकमपृच्छत् - भोस्तुभ्यं प्रत्यहमीदृशान्मोदकान् को ददाति । सोऽवक्तवैव महिम्ना प्रच्छन्नतया भवदर्थं सर्वत्र राज्ञा वसनादीनां कोशः कारितस्तत एव भवतः प्रतिलाभंयामः, स्वयमपि भुज्जूमहे । एतच्छ्रुत्वा शिष्य आर्यमहागिरिमुवाच । सोऽपि राजपिण्डत्वादप्राझं विदित्वा सुहस्तिसूरिमवादीत्-महानुभावाः ! आगताऽऽहारे शुद्धिं न गवेषयसि ?, सदैव राजकीयः समायाति, स च राजपिण्डत्वात्साधूनां नैव कल्पते । सुहस्तिरूचे - सर्वमेव राजकीयं विद्यते, तर्हि किं कार्यमित्याचक्षाणे त स्मिन्नार्यमहागिरिरजल्पत्-त्वमेवमाचारशैथिल्यं व्यनक्षि चेदद्यतस्तव मम च साम्भोगिकादिव्यवहारः पृथगस्तु, इति व्याहृत्यान्यत्र विजहार । अयं गार्हस्थ्ये ३० वर्षाणि, दीक्षायाम् ४० वर्षाणि, युगप्रधानपदे च ३० वर्षाणि, एवं सर्वायुः शतवर्षाण्युपभुज्य वीरप्रभुनिर्वाणत: पञ्चचत्वारिंशच्छत २४५तमे वर्षे दशार्णपुरीयगजाग्रपदतीर्थोपरि स्वर्ययौ । आर्यसुहस्तिसूरिरपि
१ - अस्य २६१ वर्षे स्वर्गमनमभूदिति केचित् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org