________________
दीक्षां दत्त्वा यथयात, तदा सर्वे साधवस्यामशोकराजपुत्रस्य
(२७४)
भीकल्पसूत्राप्रबोधिनी. पमामापुः, तथापि श्राद्धाः साधुभ्यो भावेन दानं ददन्ते स्म । तन्निरीक्ष्यैकं साधुं गोचरी प्रचुरां लात्वाऽऽगच्छन्तं मार्गे कश्चिभिक्षुराचष्टतव भूयसी भिक्षा मिलति, मह्यमपि किञ्चिद् देहि । मुनिरूचे-गुर्वादेशं विना कस्मेचिल्लेशमात्रमपि दातुं नाऽर्हामि । स गुर्वन्तिकमागत्योवाचप्रभो ! बुभुक्षया निये, अतो मे भोजनं देहि । गुरुरूचे-मादृशो भव, तर्हि दास्यामि । सोऽपि सहर्षमूचे-देहि मे स्ववेषम् । ततो गुरुर्लाभधिया तस्मै दीक्षां दत्त्वा यथेच्छं भोजयामास, वर्तितव्यं शुद्धभावेनेस्यजल्पञ्च । तावत्तस्य वान्तिरभूत्, तदा सर्वे साधवस्तद्वैयावृत्त्यमकुर्वत । तेन द्रमकः संयममनुमोदयन् कालं कृत्वा चोजयिन्यामशोकराजपुत्रस्य कुणालस्य भार्यायाः कुक्षौ पुत्रत्वेनाऽऽविरभूत् । अयं संप्रतिनामा जातमात्रः पितामहेन दत्तं त्रैखण्डिकं राज्यमन्वशात् । स चैकदा गवाक्षस्थः पथि रथयात्रायां सङ्घन यान्तमार्यसुहस्तिसूरिमवेक्ष्य, सञ्जातजातिस्मृत्या प्राक्तने भिक्षुभवे खं साधुभूतमपश्यत् । नीचैरागत्य तच्चरणयोः पपात । अपृच्छच्च-प्रभो! अव्यक्तसामायिकेन किं फलं जायते १, गुरव ऊचिरे-राज्यलब्धिः । पुनरप्राक्षीत्-मामुपलक्षयसि ?, गुरवोऽपि ज्ञानं प्रयुज्य जगदुः-पुरा त्वं मदन्तेवासी बभूविथ, तत्रभवे यदन्वमोदयश्चारित्रं तन्महिम्नाऽत्र भवे राज्यं प्राप्तवानसि, अतस्त्वमत्र राज्यमधिगत्य धर्म बाहुल्येनार्जय, येनाग्रे शुभमेष्यसि । इति गुरुवचो निशम्य द्वादशवतानि स्वीकृस्य सपादलक्षनूतनजिनचैत्यानि कारितवान्, प्रतिष्ठापितवाश्च सपादकोटिजिनबिम्बानि, उद्घारितवाँश्च सहस्रं जीर्णचैत्यानाम्, अचीकरच पित्तलादिसप्तधातुमयप्रतिमानां पञ्चनवतिसहस्रम् । दानशालाश्च सप्तशतीरक्रियन्त । इत्थमनेकविध
१-श्रेणिकभूपस्य पट्टे कोणिकस्तत्पट्टे उदायी, तत्पट्टे क्रमशो नापितजातीय नापिताऽभिधाना गणिकाकुच्युद्भूतनन्दवंशीया वा नन्दनाम्ना प्रख्याता राजानस्तत्प४ मौर्यचन्द्रगुप्तस्तत्पट्टे बिन्दुसारस्तत्पट्टे अशोकस्तत्पट्टे कुणालस्तत्पुत्रः संप्रति ( संपदि ) नामा भूभुगभूत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org