________________
नवमं व्याख्यानम् ।
( २७३) मागतो विप्रो ब्राह्मणीमुखात्सञ्चितं धनराशिं निशम्य, मुनिवचः सत्यं मन्वानस्तत्स्थानमखनत् , अपश्यञ्च तद्राशिं, तैश्चार्थेरभितः सुखी बभूव । इत्थं सिंहरूपधारणं भूमिनिखातधनदर्शनश्चेति कार्यद्वयं कृत्वा स्थूलभद्रो मुनिर्गुरोः समीपमध्येतुमागात् । गुरुभिरुक्तम्-अकार्यकार्यद्वयं कृत्वा समागतोऽसि, इति वाचनामादातुं नाऽर्हसि । एवं गुरौ जल्पति सति बहुदुःखिना तेन सङ्घमुखेमानुनायितो गुरुरवशिष्टचतुर्णा पूर्वाणां मूलमात्रमध्याप्य जजल्प-एताँश्चतुरः पूर्वानन्यं मा पाठयेः । ततः परं पूर्वचतुष्टयज्ञानं विच्छिन्नतां ययौ, दशपूर्वविज्ञानमेव शिशेष । अयमपि गार्हस्थ्ये ३० वर्षाणि, दीक्षापर्याये २४ वर्षाणि, युगप्रधानपदे च ४५ वर्षाणि, एवं सर्वायुः ९९ वर्षाणि परिपाल्य वीरनिर्वाणतः २१५ तमे वर्षे सुरलोकमगमत् । स्थूलभद्रो वीरपट्टावल्यां सप्तमो युगप्रधानः, तेष्वेको जम्बूस्वाम्येव चरमकेवली जज्ञे, अन्ये च षट् श्रुतकेवलिनो बभूवुः । ११६ आर्यसुहस्ति-महागिर्योः कथा-- ___ स्थूलभद्रस्य पट्टे द्वावन्तेवासिनावभूताम्, १ महागिरिरेलापत्यगोत्रः, २ आर्यसुहस्तिश्च वासिष्टगोत्रः । तत्र काले जिनकल्ममार्गस्य विच्छेदेऽपि महागिरिर्जिनकल्पतुलनां कर्तुंमलगत् । एकदा सुहस्तिसूरिः कस्यचिन्महेभ्यस्य सदने देशनां ददानो महागिरि गोचर्यै समायातमवलोक्य सहसोत्थाय ववन्दे । अप्राक्षीच्छ्रेष्ठी-अयं कोऽस्ति, यस्मै त्वमभ्युत्थितिमददाः ?, सुहस्तिस्तं स्तुवँस्तवृत्तमशेषं तमब्रवीत् । अथैकदा सर्वत्र महादुर्भिक्षे प्रसृते क्रेतृणां धान्यादिकमपि महायासेन मेलितुं लग्नम् । तत एव लोकाश्चिन्तातुरा बभूवुः, महाधनिनोऽपि रङ्को.
१-एतस्य २१५ वर्षे पदनिक्षेपः, २२५ वर्षे स्वर्गमनमित्याधुनिका इतिहासविज्ञा मन्यन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org