________________
(२७२)
श्रीकल्पसूत्रार्थप्रबोधिनी. येत ? ' स्वामिनोक्तम्-संघाबहिष्करणम् । मद्ध्यानान्तरायं न चिकीर्षति चेदत्रैव ते विद्याभ्यासिनः साधवः प्रेष्यन्ताम् । तथा विधानेन द्वयोरपि समीहितं सेत्स्यति । ततःस्थूलभद्रप्रमुखपञ्चशतश्रमणान्, तद्वैयावृत्त्यकरानन्यानपि सहश्रसाधून् प्राहिणोत्तदन्तिके सङ्घः । ते सर्वे गुरुणा यथावत्पाठ्यभानाः सप्तवाचनामधीत्य मतिमान्यादध्ययनं वि. सृज्य न्यवर्त्तन्त । केवलमेक आशुग्राही स्थूलभद्र एव दशपूर्वानधीत्यैकादशमधीयान एकान्ते तदभ्यस्यन्नासीत् । तावदेकदा तत्स्वसारः सप्त साध्व्यः स्थूलभद्रमभिवन्दितुं तत्राऽऽययुः । ताश्च भद्रबाहुमभिवन्य पप्रच्छु:--स्थूलभद्रः क्वास्ति ?, गुरुरूचे-गिरिगुहायामासीनः पठितपूर्वानभ्यस्यति । सप्तापि तत्र चलितास्तासामागमनं विदित्वा विद्याबलेन चमत्कारं दर्शयितुं सिंहीभूय तस्थिवान् । ताश्च तत्रागत्य निषण्णमतिभीषणसिंहमालोक्य त्रस्ताः सत्यः परावृत्त्य गुरुमाख्यत्-स तत्र नास्ति, सिंह एव तत्रैको निषण्णः प्रोक्ष । गुरुरवेदीत् स एव मृगारातिरूपमदर्शयत् । अतो यूयं यात, स तत्रैव मेलिष्यति । पुनस्तत्र गत्वा भ्रातरमालोक्य मुदिताः सत्यस्तं ववन्दिरे । पुनरागत्य 'अस्माभिः सहैव श्रीयको दीक्षां ललौ । ततस्तेन यक्षिणी उपोषणमकारयत्तत्कारणात्स ममार । ततो यक्षिणी तत्प्रायश्चित्तकृते श्रीसङ्घमभ्यर्थयत । सङ्घोऽपि कायोत्सर्ग विधाय समागतां शासनदेवतां सीमन्धरस्वामिपार्श्वे प्रैषीत् । सा च तन्मुखाच्चूलिकाद्वयमानीय सङ्घाग्रे निधाय यक्षिणीञ्चादूषितां निवेद्य तिरोदधे' इति गुरुं भाषित्वा ताः स्वस्थानमगच्छन् ।
अथैकदा स्थूलभद्रो मुनिः कस्यचिद्विप्रसखस्य सदनमागतस्तत्पत्नीमपृच्छत्-कुत्र गतो मे सखा ?, साऽवक्-दारिद्यपरितापाद् भिक्षितुम् । इति तया निगदिते दयया तद्ग्रहान्तः पूर्वजसञ्चितप्रचुरमज्ञातं धनं ज्ञानयोगेन विलोक्य तत्स्थानं तत्पनी दर्शयित्वा निरगात् । गृहान्तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org