________________
नवमं व्याख्यानम् ।
( २७१ )
राजाज्ञां जानन् निजकलया प्रसादितो राजा तमूचिवान् रथकार ! अहं तवानया कलया प्रसन्नोऽस्मि, अतोऽधुना यद्याचिष्यसि तत्ते दास्यामि । सोऽवदत् - राजन् ! इष्टं दित्ससि चेत्कोशा दीयताम् । क्षिति पतिस्तस्मै तामदात् । ततः प्रत्यहं रथकारस्य पुरतः सा स्थूलभद्रमुनेर्गुणान् गातुं लग्ना । रथकारो मनस्यचिन्तयत् - यदेतामहमपि कामपि कलां दर्शयानि चेत्प्रसत्स्यति । इति ध्यात्वा तया सहैकदा गवाक्षे सुखाssसीनो ऽतिदूरवर्त्तिरसाललुम्बकं बाणपारम्पर्येण त्रोटयित्वा कोशाया अदात् । अवादीच्च — सुन्दरि ! कीदृशी कला माये वर्त्तते तां पश्य । ततः कोशापि तदग्रे सर्षपान् पुञ्जीकृत्य तदुपरि सूचीमारोप्य तत्र पुष्पं धृत्वा तदुपरि तिष्ठन्ती सुचिरं ननर्त्त । तद्वलोक्य सोऽवदत् त्वयाऽनयाऽत्यद्भुतया नाट्यलीलया प्रसादितोऽहं ते किं ददानि ? इति भाषस्व । उवाच कोशा-कामुक ! ईदृशी कला तु मादृश्या सकलयैव विधीयते, यापि त्वयाऽधुनाऽदर्शि तामपि कर्त्तुं भूयांसः कारवः शक्नुवन्ति । परन्तु प्रावृषि वेलायामस्यामेव मदनराजधानीभूतायां चित्रशा लायां सरसं पविधं कामोद्दीपकमाहारं कुर्वाणोऽपि स्थूलभद्रो मयि सरागं सस्नेहं रतियाचमानायामपि यया कलया मनागपि न चुक्षुभे, तामतिदुर्लभां कलां स एव विभर्त्ति नाऽपरः । धान्यातिधन्यौ तत्पितरौ, तस्य कुलमपि पवित्रं धन्यार्हमित्थं व्याहृत्य तं विषयविमुखमकार्षीत् । स रथकारोऽपि तदैव स्थूलभद्रपार्श्वमागत्य दीक्षां ललौ ।
एवं कियत्यपि समयेऽतीते द्वादशाब्दिको दुष्कालः प्रादुरभूत् । तत्र सर्वे खल्वेकादशाङ्गी विज्ञातार स्वाऽतिष्ठन्, नैकोऽपि द्वादशाङ्गी वेत्ता । अतस्तत्रत्यः संघः पुरुषावुभौ प्रेष्य श्रीभद्रबाहुस्वामिनमाकारयत् । तौ तत्र गत्वा सङ्घादेशं तमूचतुः । स्वाम्यवोचत् - ममाधुना प्राणायाममहाध्यानं प्रवर्त्तते, अतस्तत्राऽऽगन्तुं नार्हामि । पुनस्तौ प्रेष्य संघस्तमेवमवेदयत् - यः सङ्कादेशं न मन्येत, तस्मै कीदृशो दण्डो दी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org