________________
( २७०)
श्रीकल्पसूत्रार्थप्रबोधिनी. मपि कोशागारे चिकीरस्मि । गुरुः प्रोचे-वत्स ! मदनराजधानीभूते तदोकसि जितात्मनामपि स्थितिरनर्थकरी भवति, तर्हि स्वं कथं तत्र स्थातुमीहसे ?, मागाः, यास्यसि चेदवश्यमधः पतिष्यसि । इत्थं निषेधन्तमपि गुरुमवज्ञाय स तत्र कोशालये गतः । सापि तमागतं साधा. रणे स्थाने समुत्तारितवती, तस्थुषी च तदने सामान्यवेषेण । तदपि तद्रूपविमूढः स साधुस्तां रतिमयाचत । सा जगौ-धनं विना न । सोऽप्यवदत्-धनं कुत्र मिलति ?। तयोक्तम्-नेपालदेशे राजा साधवे रत्नकम्बलं वितरति तत आनीयताम् । ततो सुनिश्चतुर्मास्यदिवसेषु रिंसया कष्टमधर्मश्चागणयस्तत्र गत्वा राज्ञस्तल्लब्ध्वा परावर्तत । मार्गे च ' लक्षं याति' इति कीरगिरमाकर्ण्य समागतो लुण्टाकस्तदुपाहरत् । ततः परावृत्त्य नृपान्तिकमागत्य व्यजिज्ञपत्-राजन् ! त्वया योऽदायि कम्बलः सोऽपहृतः पथि लुण्टाकैः । राजा वंशपर्वणि कम्बलमन्यं पिधाय तस्मा अदित । ततश्चलित्वा पुनस्तत्राऽऽगते तस्मिन् प्रागिव 'लक्षं याति' इति कीरगिरमाकर्ण्य तत्राऽऽगतो लुण्टाकः । कम्बलमपश्यञ्छकगीमुंधा न सम्भवति, इति निश्चिन्वानस्तमभ्यधात्-मुने ! 'कीरो मे वितथं न जल्पति, कम्बलस्तु न दृश्यते, अतस्त्वं सत्यं चक्ष्व क्वास्ति ते कम्बलः ? ' सत्यं वक्ष्यसि चेन्नो लुण्टिष्यामि । मुनिः कम्बलमदर्शयत्, तैरपि सोऽमोचि। ततश्चलित्वा समागत्य कोशायै तमदात् । सापि तल्लात्वा स्नात्वा तेनाङ्गानि पुञ्छित्वा खालकेऽक्षिपत् । साधुरुवाचमृर्खे ! महता कष्टेनाऽऽनीतं बहुमूल्यमेनं कथमक्षैप्सीः ?, तदोचे सारे! त्वमपि मत्तोऽधिको महामूर्यो लक्ष्यसे, यदमूल्यं स्वीयमतिदुरापं संयमरत्नं मदङ्गलक्षणदुर्गन्धभृते खाले चिक्षिप्ससि । इत्थं तया प्रतिबोधितो गुर्वन्तिकमागत्य पुनश्चारित्रमग्रहीत् ।
अथैकदा राजकीयो रथकारः कोशाया गुणरूपयोः प्रशंसामशृणोत्। अतस्तां भोक्तुमिच्छुपादेशमन्तरा कोऽपि तामधिगन्तुं नार्हति, इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org