________________
नवमं व्याख्यानम् ।
(२६६) परन्तु स महादुर्गन्धिभरप्रतोल्यैव नगराद् बहिरायातः । तेनैकान्तपरीषहसाही परमवैराग्यमुपगतोऽयमिति नरपतिप्रमुखाः सर्वे विविदुः । ततस्तस्थिवान्मन्त्रिपदे श्रीयकः । स्थूलभद्रस्तु श्रीसम्भूतिविजयाचार्यसनिधिमाप्य दीक्षां ललौ ।
समायाते वर्षौं गुरोरादेशेन कोशायाः सदने चतुरो मासानतिछत्स्थूलभद्रो महामुनिः । द्वितीयो गुरुणानुमतः सिंहगुहायामागत्य चतु
सीमस्थात् । तृतीयः सर्पबिले, तुरीयः कूपोपरिस्थकाष्ठकीलकोपरि चतुर्मासीमकरोत् । चतुलपि स्थानेषु वेश्यागारे तावती वेलां स्थितिरतिदुष्करास्ति । यतः प्रावृषि गर्ज गर्ज पयोदे वर्षति, सर्वतस्तडिति जा. यमानायां शिखिगणे च रारट्यमाने, मन्दम्मन्दं पवने वहति, मदनो भृशं जागर्ति । अनेकचित्रचित्रिते भवने वासः, सरसं षड़िधं भोजनम्, सन्निधौ च कामुकी गुणवती युवती नर्तकी, तथापि स्थूलभद्रस्तस्याः कटाक्षमार्गणैर्व्यथितोऽप्यभिन्नः । तद्धावभावादिमहावातैश्चालितोऽप्यचलः । तन्नर्तनसप्रेममधुरालापादिना विकारितोऽप्यविकृतः । तामेव चतुर्भिर्मासैः प्रतिबोध्य गुर्वन्तिकमागात् । अन्येऽपि ते त्रयः साधव आजग्मुः । एताँस्त्रीनागतान् किश्चिदुत्तिष्ठन् ‘दुष्करकारकाः ! यूयं सुखेन समागताः स्थ ?' इत्यभिदधौ गुरुः । कोशालयादागतं स्थूलभद्रं तु दूरादेव समभ्युत्थायाऽऽगच्छतु भवान् — अतिदुष्कारक ! ! !' इति त्रिवारमुच्चैरवदत् । तदा गुहावासी मुनिस्तदाधिक्यमसहमानश्चिन्तितवान्-अहो ! कीदृशो वर्त्तते गुरोविवेकः ?, यो हि गर्हिते वेश्यागारे ति. ष्ठन् प्रत्यहं सरसमश्न॑श्चतुर्मासीमकरोत् , तमेवमभ्युत्थानादिना सत्कुर्वनतिदुष्करकारिणं गदति । अहमितरैरशक्यमपि सिंहगुहावासमकरवम्, तथापि मां दुष्करकारकमित्येव जल्पति । अतो मन्ये गुरवोऽपि धनवन्तमेव लोभादाद्रियन्ते।
अथ पुनरागते वर्षौं गुहावासी गुरूनवदत्-एनां चतुर्मासीमह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org