________________
( २६८ )
श्री कल्पसूत्रार्थप्रबोधिनी.
तत्सत्यमवेदीत् । मन्त्रिणे चोकुप्यमानो राजा सपरिवारमेनं विघातयितुं निरचिनोत् । शकडालोऽप्येतत्कथञ्चिदवगत्य नृपान्तिकमागात् । तस्मिन्नागते च राजा पराङ्मुखो ववृते । राज्ञः प्रकोपमुपलक्ष्य गृहाऽऽगतो मन्त्री च तनयं श्रीयकमुवाच - वत्स ! राजा प्रकुपितो लक्ष्यते, कुलक्षयं च मे चिकीर्षति, अतस्त्वया राजानं नमस्कुर्वतो मे शिरः सहसैवासिना छेत्तव्यम् । पुत्रोऽप्येतदकार्यं पितुर्वचनमनुल्लङ्घनीयमिति हेतोरत्याग्रहेण प्रत्यपद्यत । ततः सदसि समागत्य मुखक्षिप्ततालपुटविपस्य नृपं प्रणन्तुं नताननस्य तस्य मूर्धानं राजद्वेषी हन्तव्य एवेति जल्पन् स शितेनासिना द्वैधीकृतवान् । तदा चिरं शोचित्वा प्रसन्नः क्षितिपतिस्तस्मै पितुरधिकारं प्रदातुमैच्छत् । श्रीयकेणोक्तम् – प्रभो ! मम ज्यायसे भ्रात्रे स्थूलभद्राय दीयतामेतत्पदम् । राजोवाच-स कास्ति ?, श्रीकोऽवदत्- कोशावेश्यालये । ततो राजा तमाह्वातुं प्रतिहारिणं प्राहिणोत् । नृपान्तिकं प्रयातुमुत्थितं स्थूलभद्रं कोशा जजरूप - स्वामिन् ! मागाः, यास्यसि चेत्पुनर्नागमिष्यसि । त्वां विना क्षणमपि कुत्रापि याऽहं न तिष्ठामि सा त्वया वियुक्ता सती कथं जीवि - ष्यामि ?, त्वामपश्यन्त्या नूनमसवो मे गमिष्यन्त्येव । स्थूलभद्रोऽवदत् - मा शोचीः, सम्प्रति पितर्युपरते नृपाह्वाने च याते मया गन्तव्यमेव । परमेकवारं त्वां मेलितुमवश्यमेष्यामि, इति व्याहृत्य गृहाऽऽगतः स पितुर्मरणं भट्टस्य प्रपञ्चतः श्रुत्वा नृपाभ्याशमागात् । राजाऽभ्यधात्मन्त्रिपदं गृहाण । तेनोक्तम् - विमृश्यैव ग्रहीष्यामि । ततो नृपाज्ञया स्थूलभद्रोऽशोकतरुतलमागत्य - हन्त ! संसारे सकलाः स्वार्थमात्रमीहन्ते, राज्यकार्यकरणात् पिता लोकद्वये दुःखभागभवत्, तत्को मतिमान्नरः कामयेत ? ' इत्थं बहुधा विमृश्य, निजकरेण कचाल्लुञ्चित्वा रत्नकम्बलमोघीकृत्य साधुवेषेण समागत्य, नृपाय धर्मलाभं दत्त्वा निरगात् । व्यसनित्वात्तस्या एव सदने पुनर्गन्तेति राजा मनसि मेने ।
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org