________________
नवमं व्याख्यानम् ।
( २६७ )
राज्ञा निष्काशितो वररुचिः सायं समये प्रच्छन्नं भागीरथ्यां यन्त्रं क्षिप्त्वा तन्मध्ये पञ्चशतदीनारान्मुक्त्वा प्रभाते लोकैः सह तत्र गत्वा, तावन्ति पद्यानि श्रावयित्वा युक्त्या यन्त्रं खटखटाकृत्य धौर्चेन क्षिप्तानेव दीनारान् ग्रहीतुं लग्नः । इत्थं गृह्णति सति लोका ऊचिरे - आश्चर्यमस्ति किलैतस्य माहात्म्यम्, यद्राज्ञा रुद्धेऽपि प्रदाने गङ्गैव सन्तुष्य प्रत्यहं पञ्चशतीं दीनारस्य वितरति । चितीश आख्यत्-प्रधान ! अह मप्येकदा कौतुकमेतद् दिदृक्षामि । प्रधानो जगौ - प्रभाते गन्तव्यम् । ततस्तद्धौर्त्य व्यञ्जयितुमेकमात्मीयं पुरुषं प्रच्छन्नतया तत्र स्थापितवान् । सोऽपि सन्ध्यासमये वररुचिना यन्त्रे न्यस्तं दीनारग्रन्थि निकाश्य, तत्स्थाने शिलाशकलं निधाय मन्त्रिणे समार्पयत् । प्रभाते नृपादयो लोकास्तद्विलोकनार्थं तत्राऽऽययुः । यदा प्रागिव जाह्नवीं स्तुत्वा युक्त्याऽऽकृष्टे यन्त्रे समुच्छल्य शिलाशकलमेव निपपात तदा लोकैरुपहसितः कवित्रेपे । प्रधानस्तु तद्धौयं सकलजनसमक्षं व्याहृत्य दीनारग्रन्थिमदात् । ततः प्रभृति वररुचिर्मन्त्रिणं द्विषन्नवसरं प्रतीक्षमास्तस्थौ ।
अथ मन्त्रिणा स्वसुतस्य श्रीयकस्योद्वाहो मण्डितः । तदोकसि नानाविधशस्त्राऽखाणि सज्जितुं लग्नानि । तदवसरं प्राप्य वररुचिः पद्य - मेकं समागच्छतभ्छात्रानभ्यासितवान् ।
राजा नन्दो न जानाति, शकडालस्य दुर्मतिम् । हत्वैनं निजपुत्राय, राज्यमेतत्प्रदित्सति ॥ १ ॥
।
ततस्ते विद्यार्थिनस्तत्पठन्तः क्षितिपतिभवनपार्श्वतो गत्वा स्वस्वसदनानि पेदिरे । भूपतिश्च तच्छ्रुत्वा सशङ्को भट्टमपृच्छत् — किमेतत्सत्यम् ? सोऽवदत्- प्रत्यक्षे प्रमाणापेक्षणं न जायते, न विश्वसिषि चेतत्सदने कमप्यात्मीयं चरं प्रेष्य प्रमातव्यम् । ततो राजा दूतमुखेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org