________________
( २६६)
श्रीकल्पसूत्रार्थप्रबोधिनी. कतिपयग्रन्था वर्तन्तेऽधुनापि । अयमपि ४५ वर्षाणि गार्हस्थ्य, १७ वर्षाणि दीक्षायाम्, १४ वर्षाणि च युगप्रधानपदे, एवं सर्वायुः ७६ वर्षाणि सम्भुज्य श्रीवीरनिर्वागतः सप्तत्यधिकशताब्द्यां स्वर्लोकमगमत् । ११८ श्रीस्थूलभद्रस्वामिनः कथा-- ___ भद्रबाहुस्वामिनः पट्टे गौतमगोत्रीयः स्थूलभद्र आसीत् । तत्स्वरूपञ्चेदम्-पाटलीपुत्रनगरे नवमो नन्दराजो विलसति । तस्य शकडालो मन्त्री, तत्पत्नी लाञ्छनदेवी द्वौ पुत्रौ स्थूलभद्र-श्रीयकनामानौ सुषुवे । पितृभ्यामेतौ चतुर्दशविद्याकुशलौ चक्राते । तत्र ज्यायान् सदैव पुस्तकादिवाचन एव मनो नियुञ्जानः सांसारिकं कृत्यमजानानो गृहकार्य राजकार्य चाऽकुर्वाण आसीत् । अत एतदर्थमुद्विग्नचेताः पितैनं कोशावेश्यासद्मनि स्थापयामास । अथैकदा वररुचिनामा कविराययौ । स च प्रत्यहं राजसभामागत्याष्टोत्तरशतनवकाव्यं निर्माय राजानं श्रावयति स्म । राजा च तैः काव्यैः प्रसीदन्नपि यदि प्रधानः प्रशंसेत् तर्हि तस्मै कवये दानं ददानीत्यवोचत् । प्रधानस्तु मिथ्यात्वित्वात्तन्न स्तौति, तेन राजा तुष्टोऽपि किञ्चिदपि नो ददाति । ततः कविरेकदा प्रधानप. त्नी जगाद स्ववृत्तम् । पत्न्या प्रेरितो मन्त्री सदसि तत्काव्यानि प्रशशंस । राजा सन्तुष्टः प्रतिदिनमष्टोत्तरशतदीनारान् प्रदातुमारभत । इत्थं कियन्तं कालं ददतं नृपं विलोक्य प्रधानो व्यमृशत्---चेदेवं वितरिष्यति तर्हि कोश एव नयति । इति विचिन्त्याऽनुश्रुतपाठिनी. निजसप्तपुत्रीस्तभेदं शिक्षयित्वा सदसि समाययौ । यदा स कविः श्रावयितुमलगत् , तदोवाच मन्त्री-राजन् ! एतानि काव्यानि नवानि न, किन्तु प्राच्यानि सन्ति । एतानि मत्पुत्र्योऽपि विदन्ति । तत्रैव नृपाहृतास्ताः समायाताः क्रमशस्तानि कविपठितानि काव्यानि पेटुः । ततो राजा वररुचिं तिरस्कृत्य सभातो निरगमयत् । सर्वमेतद् दुर्धिया मन्त्रिणा प्रपञ्चितम्, इति विदित्वा तदुपरि द्वेषं बिभरामास सः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org