________________
नवमं व्याख्यानम् |
( २६५) रात्सर्वानोतून निरकाशयत् , तथापि तन्निर्दिष्टदिवसे रजन्यां बिलाडमुखार्गलापातेन राजपुत्रो ममार । तदा · बिलाडेन नो हत' इति जल्पन्तं वराहमिहिरं तं दर्शयितुं सूरिस्तत्रागत्य नृपादिकं तदाकारं कपाटविष्कम्भमदर्शयत । तेन वराहमिहिरो बाढमजिहेत् , सूरिश्च सर्वैः प्रशंसितः । ततो लोकैस्तिरस्कृतो वराहमिहिरः क्वचिदन्यत्र गत्वा कष्टेन मृत्वा, व्यन्तरीभूय जैनसंघे महामारीमुत्पाद्य संहर्तुं प्रावर्त्तत । भद्रबाहुः सकलसंघकल्याणकृते ' उवसग्गहरमपरनामश्रीपार्श्वनाथस्तोत्रं ' सप्रभावं व्यधत्त । तत्पाठमाहात्म्येन समस्तोपसर्गः शशाम । लोकाः सु. खिनो बभूवुः । प्रतिगृहे तत्पठितुं लग्नः, किमधिकं गोमहिष्यादिष्वपि दुग्धमददमानासु लोकास्तत्स्मर्तुं लग्नाः। तत्स्मृत्या ता ददन्ते स्म पयांसि । वने च गोमयादिकं चिन्वानकाकिनी रूयपि तत्स्मृत्वा तदुत्थापयितुमलगत् । कियत्यः पचन्त्यः शिशौ हदमाने तत्स्मरणात्तत्रागतेन नागदेवेन शिशोः शौचप्रमुखं कारयितुमारेभिरे । इत्थं लोकास्तेन नागेनाऽकृत्यमनेकं कारयितुं लग्नाः । ततो नागराजः खिद्यमानो गुरुमभ्यर्थयत्-प्रभो ! लोका मयातिगर्हितमपि कृत्यं कारयन्ति ?, गुरुर्दध्यौ-हन्त ! एते हतभाग्या यदेनं नीचकृत्यात्कोपयन्ति, तथाकरणे कदाचिदनिष्टमपि भविष्यति । अत एतदुग्रं स्तोत्रं क्षेपणीयमेव । नागराजेनोक्तम्-षष्ठीमेव गाथामपहर, गाथापञ्चकन्तु तिष्ठतु, न तेन हानिर्भाविनी । अहं स्वस्थानस्थः सन्नेव सर्वमुपसर्ग हन्तास्मि । तथैवाऽकरोद् गुरुः । अमुना भद्रबाहुस्वामिना निर्मिताऽऽवश्यकनियुक्तिप्रमुख
१ एष हि द्वादशाब्दी योगमार्गमाललम्बे, सूत्राांश्च निबन्धयामास । दौर्भिक्ष्यतरिछन्नभिन्नत्वमापन्नामेकादशाङ्गी पुनरेष पाटलीपुत्रपत्तने सङ्कलयामास । श्वेताम्बरग्रन्थनिर्मातारः कियन्तो वराहमिहिरं श्रुतकेवलिनो भद्रबाहुस्वामिनो भ्रातरं मेनिरे । इदानीन्तना इतिहासझातारस्तु विक्रमीयतृतीयशताब्द्यां जातस्य नैमित्तिकस्य भद्रबाहुसंहिताप्रणेतुर्द्वितीयभद्रबाहो - न्धवं मन्यन्ते । एवमेव मौर्य चन्द्रगुप्तस्य स्वप्नफलकथनमेतद्दीक्षाऽऽदानवार्ता च द्वितीयभद्रवाहुनैव संबध्नाति ।
३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org