________________
( २६४)
श्रीकल्पसूत्रार्थप्रबोधिनी. च ज्योतिर्विद्यामदात् । अतोऽहं त्रैकालिकी वार्ता वेद्मि । तच्छ्रत्वा सर्वे लोकास्तं सच्चक्रुः, इत्थं सर्वेषां मनोगतं जल्पन्नुपादिकं तोषयन्नासीत् । तावत्तत्र भद्रबाहुरायातः। श्राद्धाश्च महामहं विधाय तं नगरं प्रावेशयन् । परं तदसहमानो वराहमिहिरो दध्यौ-यदेतस्य यथा मानभङ्गः स्यात् , तथाऽनुष्ठेयमेवेति ध्यात्वा नृपान्तिकं गत्वा सोचे-राजन् ! अद्यतनदिवसात्पञ्चमे दिने तृतीये यामे पूर्वस्या दिशः समागतो मेघो वर्षिष्यति । अत एतत्कुण्डालकं कुर्वे, एतस्य मध्यभागे च द्विपञ्चाशत्पलप्रमाणो मीनः पतिष्यति । तदुक्तं भविष्यद्वार्ता श्रुत्वा कश्चिच्छ्रावको भद्रबाहुं चचक्षे । सोऽवक्-सत्याऽसत्यमिश्रमस्ति । तन्मध्ये पतनमसत्यं तत्प्रान्ते पतनं सत्यम् । पूर्वदिश आगमनमसत्यमीशानकोणादागमिष्यतीति सत्यम् । तृतीययामोक्तमलीकं षट्पटिकावशेषे पतिष्यतीति सत्यम् । मीनस्य द्विपञ्चाशत्पलमानता मिथ्या, किन्तु सार्धेकपञ्चाशत्पलप्रमाण त्वं सत्यम् । ततः श्रावकाः सर्वमेतदाचार्यवचः क्षितिपतिमूचुः । राजा जगौ-तदिने द्वयोरुक्तौ प्रामाण्यमप्रामाण्यं वा भोत्स्ये। समायाते तदिने सूरिभाषितमेव साकल्येन मिलितम् , वराहमिहिरोक्तं तु सत्याsसत्यमिश्रमभूत् , अतस्तस्य लोके प्रतिष्ठाहानिर्जाता।
अथैकदा राज्ञः पुत्रे जाते तस्य जन्मपत्रिका निर्माय, शतमायुर्भवितेति वराहमिहिरो राजानं प्रोचे । तदुत्सवे सर्वे लोका विविधोपहारैस्त्यागिनो विप्राश्च फलादिना नृपं वर्धयामासुः । केवलं जैनमुनयो नाऽऽगुः । तदाऽवसरमासाद्य वराहमिहिरो जगाद-राजन् ! इदं पुत्र. जन्म सर्वेषां सुखाय केवलमेकस्मै जैनमुनये न रुरुचे, यतः सोऽद्यापि तवान्तिकं नाऽऽगात् । इदमपि कश्चिच्छ्रावकः सूरिमचकथत । गुरुरुवाच-साधवोऽनेकधा नृपसदसि नो यान्ति, अवसरमासाद्य सत्युपयोगे सकृदेव यान्ति । अष्टमे दिवसे जातोऽसौ राजपुत्रो निशि बिलाडेन हनिष्यते तदा यास्यामि । गुरुभाषितं श्रावको नृपमजिज्ञपत् । राजा नग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org