________________
नवमं व्याख्यानम् ।
( २६३) वर्षाणि गार्हस्थ्ये, ११ वर्षाणि दीक्षायाम्, २३ वर्षाणि युगप्रधानपदे, एवं सर्वायुः ६२ वर्षाणि परिपाल्य, श्रीवीरविभोर्निर्वाणतोऽष्टनवतितमे वर्षे स्वासने यशोभद्रं निवेश्य कालं कृत्वा सुरलोकमगमत् । ११७ श्रीभद्रबाहुस्वामिनः कथा --
शय्यम्भवसूरिपट्टे यशोभद्रसूरिस्तुङ्गियायनगोत्रीयो निषसाद । स च द्वाविंशतिवर्षाणि गृहवासे, चतुर्दशवर्षाणि दीक्षायाम् , पञ्चाशद्वणि युगप्रधानपदे चैवं सर्वायुः षडशीतिवर्षाणि परिपूर्य, स्वपट्टे सम्भूतिविजय-भद्रबाहुनामानौ शिष्यौ संस्थाप्य, श्रीवीरनिर्वाणतोऽष्टचत्वारिंशदधिकशताब्द्यां देवलोकमगमत् । माठरगोत्रीयः श्रीसम्भूतिविजयोऽपि गृहवासे ४२ वर्षाणि, दीक्षापर्याये ४० वर्षाणि, युगप्रधानपदे च ८ व. र्षाणि स्थित्वा, सर्वायुः ९० वर्षाण्युपभुज्य वीरनिर्वाणतः षट्पञ्चाशदधिकशततमे वर्षे सुरलोकमगमत् । श्रीभद्रबाहोः कथा चैवम्
प्रतिष्ठानपुरवासिनौ प्राचीनगोत्रीयौ द्वौ वराहमिहिर-भद्रबाहुनामानौ सोदरौ ब्राह्मणौ श्रीयशोभद्रसूरिमुखाद्देशनां श्रुत्वा तत्पार्श्वे दीक्षा लात्वा चतुर्दशपूर्वानध्यैषाताम् । गुरवो विनयादिगुणयोगाद् भद्रबाहुमाचार्यमकार्षुः । वराहमिहिरमविनीतत्वात्तथैव मुमुचुः । वराहमिहिरो गुरौ द्वेषं वहन् वेषं परित्यज्य · वाराहीसंहिता' प्रमुखज्योतिःशास्त्रीयाsनेकान् ग्रन्थान् निर्माय नैमित्तिको भवॅल्लोकेषु स्वजीविकां प्रथयामास । 'भोः ! त्वया कस्य पार्श्वे किलेशी विद्या लेभे ? ' इति लोकैः पृष्टः स तानेवं वक्ति स्म-अहमेकदा नगरद्वारि शिलोपरि सिंहलग्नकुण्डलीममण्डयम् , तदलप्त्वैव गृहमागाम् । निशि शयनावसरे तदभञ्जनं स्मृत्वा लग्नभक्त्या च तत्र गत्वा कुण्डलिकास्थितं सिंहमपश्यम् । तथाप्यबिभ्यद्धस्तक्षेपेण तां विलुप्तवाँस्तेन सिंहलग्नाधिपतिः प्रसद्य, प्रत्यक्षीभूय वरं वृणीष्व, इति मामवादीत्। ततोऽहं खेटानां सञ्चारदर्शनं बब्रे। तदनु स निजमण्डलं नीत्वा सकलखग-सञ्चारं मामदर्शयत्, सकलां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org