________________
(२६२)
श्रीकल्पसूत्रार्थप्रबोधिनी. वत्स ! जनक विना कोऽपि नोत्पद्यते, तवापि जनकः शय्यम्भवभट्टोsस्ति । तेनोक्तम्-स कुत्रास्ति ?, मात्रोक्तम्-केनापि जैनमुनिना प्रलम्भितो जैनी दीक्षामग्रहीत् । ततो मनकः पितरं गवेषयितुं गृहान्निर्गत्य शय्यम्भवसमलतनगराबहिरायातः । तत्र स्थण्डिलार्थं वजन्तं तमपृ. च्छत्-शय्यम्भवसूरिः क्वास्ति ?, गुरुणोक्तम्-तेन ते किं प्रयोजनम् ?, तदाऽऽत्मवृत्तं सकलं निवेद्य सोऽवक्-अहमस्मि तत्पुत्रः । तन्निशम्य तमुपाश्रये गन्तुमादिशत् । सोऽपि तत्र गत्वा तस्थौ । तत आगतं गुरुं सोऽभ्यर्थयत-यन्मे दीक्षां देहि । गुरुणोक्तम्-चेदाक्योर्जन्यजनकत्वं नो ब्रूयात् कस्याऽप्यग्रतस्तर्हि दीक्षां दद्याम् . इति गुरूक्तं स्वीकृतं मनकेन । ततस्तस्य दीक्षां दत्त्वा स्वल्पायुषं विदित्वा सिद्धान्ते. भ्यः सारमृद्धृत्य — दशवैकालिकसूत्रं ' तमध्यापिपत् । मनकोऽपि षड्भिर्मासैस्तदध्यगीष्ट। षण्मासी संयम पालयित्वा स्वायुः क्षयेऽम्रियत । तच्छवं दग्ध्वा समाजग्मुः श्रावकाः । तदा यशोभद्रप्रमुखान्तेवासिषु बहुषु निषण्णेषु देशनां दददपि पुत्रस्नेहादश्रूणि मुमोच । तदवलोकयन्तः कियन्तः शिष्याः पप्रच्छः-प्रभो ! पुरा ते कियन्तः शिष्या मम्रः, कदापि ते लोचनाभ्यामश्रूणि न पेतुरेकस्मिन्नल्पायुष्के शिष्ये मृते दृशस्ते कथमश्रूणि मुञ्चन्ति ?, तत्कारणं भाषस्व । गुरुराख्यत्मोहात् । पुनस्ते पृष्टवन्तः-त्यक्तसंसारस्य भवत एतस्मिन् कीदृशो मोहः ?, गुरुरुवाच-स मे सांसारिकः सूनुरासीदतो मोह उदैत् । ततः शिष्या ऊचिरे-भगवन् ! प्रागेवैतत्कथं नाऽसूचि ?, गुरुः कथिते च भवन्तस्तेन वैयावृत्यादिकं न कारयेरन्, ततः स्वल्पायुषस्तस्य कोsपि लाभो न स्यात्, अतो मया तदगोपि । अथ तदर्थमुद्धृतं दशवैकालिक सूत्रं सिद्धान्तेषु क्षेप्तुमुद्यतं गुरुं शिष्याः प्रार्थयामासुः-एष ग्रन्थो लघुवाहजुमतिकानां स्वल्पायुषाञ्च साधु-साध्वीनामग्रे महोपकारी भवितेति पृथगेव स्थाप्यताम् । ततो गुरुस्तं तथैव मुमोच । अयमपि २८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org