________________
नवमं व्याख्यानम् ।
( २६१ )
6
"
"
परिजनान् पुष्णन्नासीत् । एकदा पञ्चशतपरिवारयुतो राजगृहनगरे जम्बूसदने लुटितुं प्राविशत् । तदा जम्बूस्वामिना प्रतिबोधितः सहैव सपरिवारो दीक्षां ललौ । अपाठीच्च चतुर्दशपूर्वान् स चैकदा कमाचायं कुर्याम् ? ' इति विमृशन् स्वगच्छे कमपि तद्योग्यमपश्यन् मतान्तरीयमेकं शय्यम्भव भट्ट मुदीक्ष्य शिक्षितौ द्वौ वाचंयमौ तस्यौकसि प्रेषितवान् । तौ तत्र गत्वा 'अहो कष्टमहो कष्टं तत्त्वं न ज्ञायते परम् इति जगदतुः । साधूकिं निशम्य सकोपः शय्यम्भवस्तदैव खड्गपाणिस्तत्रागत्याऽसि विलोलयन् गुरुमभाषत - रे ! अहं तत्त्वं न वेद्मि कीदृशं तत्त्वमस्ति तद्दर्शय ?, नोचेदमुनैवासिना शिरः कर्त्तिष्यामि । गुरुरभापत-पश्य तत्रं यत्र यजसे तत्र समिधामधस्ताच्छ्रीशान्तिनाथस्य मूर्त्तिरस्ति, सा कुरुते शान्ति, ददाति चाभीष्टं शाश्वतं सुखम् । यजने तु कष्टमात्रं जायते, फलं किमपि नोत्पद्यते । इत्थं गौरवं वचः श्रुत्वा गृहमागत्य प्रतिमां निष्काश्य प्रतिबुबुधे । तदैवाऽन्तर्वत्नीमपि पत्नीं विहाय गुरोः पार्श्वे दीचां जग्राह । अयं प्रभवस्त्रिंशद्वर्षाणि गार्हस्थ्ये, चतुश्चत्वारिंशद्वर्षाणि व्रतपर्याये, एकादशवर्षाणि युगप्रधानपदे स्थित्वा, सर्वायुः पञ्चाशीतिवर्षाणि परिपूर्य श्रीवीरनिर्वाणतः पञ्चसप्ततितमे वर्षे निजपट्टे शय्यम्भवं संस्थाप्य देवलोकमगमत् ।
११६ श्रीशय्यम्भव सूरिकथा
प्रभवस्वामिनः पट्टे शय्यम्भवसूरिर्वत्सगोत्र आसीत् । प्रब्रजिते ऽमुष्मिन् गृहे मनकनामा पुत्रो जज्ञे । अथैकदा विद्याशालायां तमूचिरे शिशवः रे ! स्वपितरमप्यजानन् किं बूषे १ तेन खिद्यमानः सदनमागत्य मातरमप्राक्षीत् - मम पिता कोऽप्यस्ति न वा १, साऽवदत्
१ निजाध्यापकान्तिकमेत्य तत्त्वे पृष्ठे स एनं स्तूपाऽधस्ताजिनप्रतिनां दर्शयित्वा तदात्मकमेव तत्त्रमित्याचचते । ततः प्रतिबुद्धः शय्यम्भवः प्रभवस्वामिसमीपमित्वा पारमेश्वरी दीक्षां जमाह, इत्यपि प्रत्यन्तरे दृश्यते !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org