________________
(२६०)
श्रीकल्पसूत्रार्थप्रबोधिनी. वसुषेण-वसुपालिताभिधानष्टौ श्वशुगन् , पद्मवती-कनकमाला-विजयश्री-धनश्री-कनकवती-श्रीषेणा-वीरमती-जयसेना इत्यष्ट श्वश्रूश्च, प्रभवादिपञ्चशतचौरान्, निजमातापितरौ चानेकहेतुदृष्टान्तैर्वैराग्यमुत्पाद्य, सर्वैः सह षोडशवर्षीयानेव महामहेन श्रीसुधर्मस्वामिनः पार्थे दीक्षामग्रहीत् । ततो द्वादशाङ्गीमभ्यस्याऽऽचार्यपदभागध्यजायत । समवाप च घोरतरातिदुष्करतपोऽनुष्ठानेनैष कैवल्यज्ञानम् । व्यगमच्चैतस्य षोडशाब्दी गार्हस्थ्ये । गताश्च विंशत्यब्दा दीक्षापर्याये, चतुश्चत्वारिंशच्च हायनानि कैवल्यपर्याये । एवमशीतिवर्षायुष्कं सकलं परिपूर्य प्रभवस्वामिनं स्वपट्टे निवेश्य, वीरनिर्वाणतश्चतुष्षष्टितमे वर्षे जनन-मरणहापकं मोक्षमध्यगच्छत् । निर्वृते चामुके १ मनःपर्यवज्ञानम् , २ परमावधिज्ञानम् , ३ केवलज्ञानम् , ४ पुलाकलब्धिः , ५ आहारकशरीरलब्धिः, ६ क्षपकश्रेणी, ७ उपशमश्रेणी, ८ जिनकल्पः, ९ यथाख्यातपरिहारविशुद्धि-सूक्ष्मसम्परायचारित्रत्रयी, १० सिद्धिगमनमिमानि दशवस्तून्यस्मिन् भरतक्षेत्रे व्यच्छिदन् । असौ जम्बू मुक्तिमधिगत्य परस्मै नाऽदात्, प्यधाच्च सिद्धेरिम्, अत एवैतस्मिन् नैसर्गिक कार्पण्यं निगदन्ति कवयः। अत्यद्भुतमेतत् यन्मुक्तिरप्येनं वृत्वाऽपरं कमपि नाऽवृणोत् सतीव । ईदृक्षः कोपालोऽप्यन्यो नाऽभूत् , यत् पञ्चशत. चौरानपि संयतानकरोत् । ११५ श्रीप्रभवस्वामिनः कथा__ जम्बूस्वामिनः पट्टे कात्यायनगोत्रीयः प्रभवस्वामी बभूव । स हि विन्ध्यनगासन्ने जयपुरपत्तनाधिपति-विन्ध्यमहीपतेः पुत्रौ प्रभव-प्रभुनामानौ जातौ । राजा केनापि हेतुना लघुपुत्राय राज्यमदात् । ततः कोपात्प्रभवो गृहान्निर्गत्य विन्ध्याचलीयदुर्गमस्थाने निवसँश्चौर्यादिना
१ अमुष्य सारगर्भितं विस्तं वैराग्यपूर्ण चरित्रं बुभुत्सुना श्रीहेमचन्द्राचार्यरचितं • त्रिषष्टिशलाकापुरुषचरित्रं ' ' सिरिजंबूचरियं ' चाऽवलोकनीयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org