________________
(२८४)
श्रीकल्पसूत्रार्यप्रबोधिनी. गृहवासे. ११६ श्रामण्ये, ३ युगप्राधान्ये चैवं सकलायुः १२८ वर्षाणि सम्पूर्य वीरनिर्वाणतः ६२० तमे वत्सरे यामियाय । वज्रस्वामिवज्रसेन योर्मध्ये आर्यरक्षितदुर्बलिकापुष्पमित्रौ युगप्रधानावभूताम् । १२२ त्रैराशिकशाखोत्पत्तिः--
अथाग्रे येन यानि गण-शाखा-कुलानि निर्गतानि तानि प्रद. Wन्ते-श्रीभद्रबाहोः शिष्याद् गोदासाद् · गोदासगणः ' समुत्पेदे । ततस्ताम्रलिप्तिका, कोटीवर्षिका, पुण्ड्रवर्धनिका. दासीखर्बटिका इमाश्चतस्रः शाखाः पप्रथिरे । महागिरिशिष्योत्तरबलिसहाभ्यां · उत्तरबलि. सह ' गणः प्रासिध्यात् , तत्र कोशाम्बिका, सूक्तिप्रत्यया, कौटुम्बिनी, चन्द्रनागरी एताश्चतस्रः शाखा अभूवन् । आर्यमहागिरेः शिष्याद्रोहगुप्तषडुलूकात्रैराशिकी शाखा निरगाच्छ्रीवीरनिर्वाणतः ५४४ तमे वर्षे । तथाहि--एकदा श्रीगुप्तसूरिरन्तरञ्जिकापुरीमायातः । तत्रैको महावादी पोदृशालनामा तापसोऽप्यागतः । अयं हि वृश्चिक-सरीसृप-मूषकमृग-शूकर-काक-पक्षीति सप्त प्राण्युत्पादिका विद्यां वेत्ति । तेनातिदृप्तो लोकानेवं कथयति-कदाचिदुदरे स्फुटिते विद्या एता न निर्गच्छेयुः, इति हेतोः प्रतिबद्धोदरस्तिष्ठामि । जम्बूकलशं दर्शयन्नाचष्टे-किलेवं यदस्मिञ्जम्बूद्वीपे स नैवास्ति यो मां विद्यावादे जयेत् । दर्पाच्चैवं नृपाये जल्पित्वा सर्वत्र नगरे पटहं वादयामास-' चेदस्ति कोऽपि विद्याभिमानी स नृपसदसि मां जयतु, नो चेन्मे विजयपत्रं ददातु ' तन्निशम्य गोचर्ये समायातो रोहगुप्तमुनिरहमस्मि तेन सह विवदिषुः, इत्युच्चार्य पटहमरौत्सीत् । ततो गुर्वन्तिकमागत्य समूचे-तत्सर्वम् । गुरुरुवाचनैतत्साध्वकृथाः, स मिथ्यात्वी तापसः क्रोधाद्विद्यायोगेन त्वामपकरिष्यति । सोऽवदत्-त्वादृशे जैनाचार्ये विलसति तस्मै विजयपत्रदानमपि हानिकरं जाने, अतो मामनुजानीहि, भवत्कृपया स किमपि कर्तुं नैव शक्ष्यति । गुरुस्तस्मै मयूरी-नकुली-विडाली-व्याघी-सिंही-उलूकी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org