________________
नवमं व्याख्यानम् ।
(२८५) श्येनीति सप्त विद्या अदात्, अभ्यधाच्च-चेदधिकमुपसर्ग स विदध्यात्, तर्हि मन्त्रितमेत रजोहरणं भ्रामयित्वा तच्छान्तिः कर्त्तव्या। अथाऽऽ. चार्यशिक्षितो रोहगुप्तमुनिर्बलश्रीनामकनृपसभायामाजगाम, तत्राऽऽ. ख्यत्तापसम्-भोः ! स्ववादं प्रकटीकुरु । योगी जगाद-मया राशिद्वयी मन्यते-जीवराशिरजीवराशिश्च । रोहगुप्तेनाऽचिन्ति-' यद्यप्येतत्सर्वानु. मतमाचष्टे, परमिदानीमेतत्स्वीकारे तस्यैव जयं मम च पराजयं वदि. ष्यन्ति सभ्याः, अतो मया ततो विपरीतमेव गदनीयम ।' इत्यवधार्य जगाद-भोः ! राशिद्वयकथनमसङ्गतमस्ति, यतः जीवराशिरजीवराशिनोंजीवराशिश्चेति राशित्रय्या अपि सत्वात् । तापसोऽवदत-नास्ति तृतीयो राशिः, प्रतिपादयसि चेद्युतिः प्रदर्यताम् , युक्तिं विना किमपि नैव प्रमीयते । तदा रोहगुप्तमुनिरेकं सूत्रं वंटयित्वा भूभौ निधाय तस्मिश्चलिते तमब्रवीत्---भोः ! दृश्यतामयमेव नोजीवालाकस्तृतीयो राशिः, एतस्मिँश्चलनादिकं प्रत्यक्षं दृश्यते । अतो जीवाजीवान्यतरवेन वक्तुं न शक्यते तर्हि नोजीवराशिस्तृतीयो मन्यताम् । इत्थं सकलं जगत्त्रैराशिकमस्ति, इति सर्वानुमतं त्वयापिमन्तव्यमेव । इति कल्पितयुक्त्या तं तापसं निरुत्तरीकृत्य व्यजष्ट । ततस्तापसो विद्यया महतो वृश्चिकानुदपादयत्, ताँश्चलतो विलोकमानाः सर्वे सभ्यास्त्रेसुः । रोहगुप्तोऽपि मयूराञ्जनयामास, ते तान् वृश्चिकान् खादितवन्तः। ततस्तापसेन सरीसृपेषु महाकायेषु निर्मितेषु गुरुदत्तविद्यया रोहगुप्तेन नकुला अस्सृज्यन्त । ततो योगी मूषकान् ससर्ज, रोहगुप्तस्तद्भक्षणाय महत ओतूनजीजनत् । योगी तीक्ष्णशृङ्गान्मृगान् निर्मितवान् , साधुरपि तद्विनाशाय चित्रकान् व्यकरोत् । योगी महारदाञ्छूकराजनितवान् , तजिघांसया स सिंहान् प्रकटितवान् । योगिनिर्मिताऽमितकाकविघाताय रोहगुप्त उलूकानुत्पादितवान् । पुनर्योग्युत्पादितपक्षिवृन्दभक्षणाय मुनिः श्येनान् सृष्टवान् । इत्थं विद्यास्वपि हारितो योगी गर्दभी विद्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org