SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ( २८६ ) श्रीकल्पसूत्रार्थप्रबोधिनी. प्रायुक्त, ता इतस्ततः पादौ क्षिपन्तीर्विलोक्य रोहगुप्तो रजोहरणमवभ्रामत्, ततस्तदीया सा विनाशमगात् । इत्थं योगिनं जिला बहुलोकैरनुगतो रोहगुप्तो गुर्वन्तिकमागात् । , गुरुरपृच्छत् - कथमजैषीः ? सोवाच - त्रिराशिस्थापनया । गुरुरुवाच - नैतत्साध्वकारि, शास्त्रे राशिद्वयमेव विद्यते त्वया तत्रितयं व्यव - स्थापितमतस्त्वं तत्र गत्वा सङ्घसमक्षं मिथ्यादुष्कृतं देहि, नो चेटुत्सूत्रभाषणादर्हदाज्ञाविघातनात्पापीयान् भविष्यसि । शिष्योऽवदत् – प्रभो ! एवं करणेन महती मे हानिर्भविष्यति, अतोऽहमेवं नैव विधित्सामि, मयो. त्सूत्रं नाऽभावि, राशिस्तु त्रयात्मिकैत्रास्ति । गुरुर जल्पत्-रे ! सत्यमप्युक्तं न मनुषे, प्रयापि सह विवादं चिकीर्षसि तर्हि राज्ञः परिषदि त्वया मया च गन्तव्यम्, तमेव साक्षीकृत्य विवादं विधास्यावः । इति निगद्य शिष्येण सत्रा नृपपरिषदमागत्य व्याजहार - राजन् ! एष योगिनं विजेतुं यत्त्रैराशिक मतमस्थापयत तदलीकमकरोत् परमेष तन्नाङ्गीकुरुते, मयापि सह विवदिपति, अतस्त्वमावयोर्वादे साक्षी भव । राजोवाच भविष्यामि साक्षी, प्रारभ्यतां विवादः । ततस्तौ मिथः षण्मासी विवादमकृषातां जयपराजयौ कोऽपि नाप । अजल्पद्राजा - महान्तौ ! युवयोर्वादे षण्मासी जाता, निर्णयस्तु नैव जज्ञे, अतःपरं स्थातुं नेच्छामि, यतो मे राज्यकार्यं हीयते । गुरराख्यत् - श्वस्तन्यां सभायामवश्यमेवमेतन्निर्णीय समापयिष्यामि । प्रभाते जाते सभामागतो गुरुस्तमब्रवीत् — भोः ! आवां षण्मासीं विवादं कृतवन्तौ बहुधा युक्तिदर्शनेऽपि कदाग्रहं नो मुञ्चसि चेत्तर्हि कुत्रिकापणं व्रज, तत्र त्रिभुवनगतं सद्वस्तु सर्वं मिलति त्वमपि नोजीवं समानीय लोकं दर्शय, तदा त्वदुक्तं राशित्रयीं प्रमिणुयाम् । इति गुरुणा भणितं मत्वा स कुत्रिकापणमागत्य जीवे मार्गिते देवो मूषकं ददिवान्, अजीवाऽर्थने प्रस्तरमदात् । नोजीवे याचिते तु प्रागानीतमेव पुनः पुनरयच्छत्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy