________________
(२८७)
नवमं व्याख्यानम् । नोजीवस्य गगनकुसुभकल्पत्वात् । तदा व्योमवागजायत-यदस्मिागति जीवाजीवात्मकौ द्वावेव राशी स्तः, नोजीवात्मकस्तृतीयो राशिस्तु नैवास्ति ! तन्निशम्य सर्वे सभ्याः गुरूक्तं साधु मेनिरे । गुरुणोक्तम्-रे ! अनया व्योमगिरा प्रत्यबुध्य पाश्चेन्मिथ्यादुष्कृतं ददस्व । रोहगुप्तोऽजल्पत्-मया यदवादि तदेव सत्यं तदन्यन्नैव मन्ये। तदा चतुश्चत्वारिंशदधिकच्छाशतेन निरुत्तरीकृतोऽपि रोहगुप्तो निजहठममुश्चन् प्रकुपितेन गुरुणा शिरासे खेल मस्म प्रक्षिप्य गच्छाबाहश्चके । स वैशेषिकं मतं प्राकाशयत् । तत्र नव द्रव्याणि, सप्तदशगुणाः, पञ्चकर्माणि, त्रीणि सामान्यानि, एको विशेषः समवायश्चेति षडेव पदार्थाः, एषामवान्तरभेदाश्चत्वारिंशदधिकशतानि जायन्ते । ततो लोके षट्पदार्थप्ररूपकत्वादुलूकगोत्रोद्भवत्वाच्च ‘षडुलूक ' नाम्ना पत्रथे, तत एव प्रववृते च ' त्रैराशिकी'-शाखा। १२३ मध्यमाशाखोत्पत्तिः
आर्यरोहणत ' उद्देहगणः ' तत्रोदुम्बरीया-मासपूरिका-मतिप्राप्ति का-प्रज्ञपत्तिकाश्चतस्रः शाखाः, नागभूत-सोमभूतिक-आर्द्रगच्छ-हस्तलीय-नन्दीय-परिहासका इति षट् कुलान्यभवन् । आर्यभद्रयशसः 'उडुपाटिको गणः ' तस्मिंश्चम्पीया-भद्रेर्यिका-काकन्दीया-मेहलिजियाः शाखाः, भद्रयशस्क-भद्रगुप्तिक-यशोभद्र इति त्रीणि कुलानि प्रथितानि । श्रीकामर्द्धिकस्थविराद् वैश्यपाटिको गणः, तदीयाः श्रावस्तिका-राज्यपालिका-अन्तरीया-क्षेमिलियाः शाखाः। गणिक-मेधिक-कामर्द्धिक-इन्द्रपुरकाणीति चत्वारि कुलान्यभूवन् । सुस्थित-सुप्रतिबुद्धाभ्यां 'कोटिको गणः' एतस्मिन् उच्चनागरी-वैद्याधरी-वाजीमध्यमाश्चतस्रः शाखाः। ब्रह्मलीय-वत्सलीय-वाणिज्य-प्रश्नवाहनकानि चत्वारि कुलानि जज्ञिरे । प्रश्नवाहनकुलाच ' मलधारगच्छः ' समजनि। ऋषिगुप्तस्थविरतो मानवगणः। तत्र काश्यपार्जिका-गौतमीया-वाशि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org