________________
(२८८)
श्रीकल्पसूत्रार्थप्रबोधिनी. ष्ठिका-सौराष्ट्रिकाः शाखाः । ऋषिगुप्तिक-ऋषिदत्तक-अभिजयन्त इति कुलानि बभूवुः । आर्यश्रीगुप्ततः 'चारणगणः' । एतस्मिंश्च हारितमालाकारी-शङ्काशिका-गवेधुका-विद्यानागरीति चतस्त्रः शाखाः । वत्सलीय-प्रीतिधार्मिक-हारीत-पुष्पमित्रीय-मालीय-आर्यवेटक--कृष्णस. खेति सप्त कुलानि जातानि । आर्यप्रियग्रन्थसूरितो मध्यमा शाखा निरगच्छत् , तथाहि-श्रीहर्षरे (अजमेरनगरे ) जिनचैत्यानि त्रीणि शता. नि, शिवालयानि चतुःशतानि. अष्टसहस्रमितानि भूसुरादिसदनानि, श्राद्धगृहाणि षट्त्रिंशत्सहस्राणि, उपवनानि नवशतानि, वापिकाः सप्तशतानि, दानशालाश्च सप्तशतानि सन्ति । राजा च सुभटपालोऽस्ति । तत्रैकदा द्विजा यज्ञं प्रारेभिरे । तदवसरे प्रियग्रन्थसूरिस्तत्राऽऽययौ । स हि द्विजैरारब्धं हिंसामयं यज्ञं श्रुत्वा वासक्षेपमभिमन्य श्राद्धयाणौ दत्त्वाऽभ्यधात्-भोः ! यज्ञे हनिष्यमाणपशूपरि क्षिपत । तेऽपि तत्र गत्वा तथाविहितवन्तः । प्रक्षिप्तवासचूर्णप्रभावेण तस्य होमीयाऽजस्याऽङ्गेऽम्बिका प्राविशत् । तेन सोऽजस्तत्कालं व्योम्नि समुड्डीय नृगिरा वक्तुमारेभे-रे विप्राः! यथा यूयं मादृशानमन्तञ्जीवान्निहथ, तथाऽहमपि वः सकलान् हिंस्यां तर्हि किं स्यात् ?, परन्तु युष्मानिव मां दया नोज्झति । अतो वो हितं ब्रवीमि-ये मूढाः पशून् हन्ति, ते पशुपातिनस्तदङ्गरोमप्रमितवर्षसहस्रं नरके तिष्ठन्ति । ये पुनरेनं रक्षन्ति, ते भेरुतुल्यस्वर्णदानात्समग्रपृथ्वीदानाचाऽधिकं फलं प्राप्नुवन्ति । किञ्चाऽभयदानफलन्त्वक्षय्यमेवास्ति, इति सर्वाधिक न्यगादि शास्त्रकृद्भिः । द्विजा चिरे-वं कोऽसि ?, कथं वा यज्ञविहन्तुमेवमाचक्षे ? । अजोऽवदत्अहं हुताशनदेवोऽस्मि, अजो हि मे वाहनमस्ति । 'पशुहत्यापापेन वः समेषां घोरनरके नियतं वासो भविष्यति ' अतो वो बोधयामि । विप्रा ऊचिरे–देव ! धर्मार्थमेतानिहन्मस्तत्र कथं पापं लगिष्यति ?, नरके वा वसतिर्भाविनी । देवोऽजल्पत्-हिंसनाजीवानां धर्मो जा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org