________________
नवमं व्याख्यानम् ।
( २८६ )
त्वपि मनागपि नैत्र । वेदस्मिन्नाधिकं बुभुत्सथ, तर्हि समागतं प्रियप्रन्भसूरिं पृच्छत । ततः सर्वे विप्रास्तत्र गत्वा तमपृच्छन् – प्रभो ! शुद्धो धर्मः कीदृशोऽस्ति ?, सूरिरार्हतं शुद्धं धर्ममहिंसालक्षणं तानब्रवीत् । तन्निशम्य सर्वे विप्रास्तमङ्गीकृतवन्तः, एतस्मादेव मध्यमा शाखा निगादिति ।
१२४ ब्रह्मद्वीपिकाशाखोत्पत्तिः
विद्याधरगोपालस्थविराद्विद्याधरी, आर्यशान्ति सैनिकात्सैनिका, आर्यतापसात्तापसी, आर्यकुबेरात्कौबेरी, आर्यऋषिपालाद् ऋषिपालिका, आर्यवज्रस्थविराच्च वाज्री शाखा प्राकट्यं निनाय । आर्यसमित सूरेर्ब्रह्मद्वीपिका शाखा निरगात्, तथाहि - आभीरदेशेऽचलपुराऽऽसन्ने कन्ना - वेन्नानाम्न्यौ नद्यौ स्तः । तयोर्मध्ये ब्रह्मद्वीपो वर्त्तते । तत्र तापसानां पञ्चशती तिष्ठति । तेष्वेकः पादलेपप्रयोगेण परिहितपादुकस्ते नद्यावुत्तीर्य, अनार्द्रचरण एव नगरमागत्य पारणं कुरुते । लोकाश्च तमित्थं प्रशंसन्ति - यदस्य कीदृशी सिद्धिर्यथा भूमाविवाऽगाधजलेऽपि चलति । तद्धौ
कलया बहवो जैना अपि मिथ्यात्विनो जज्ञिरे । तदवसरे तत्र श्राद्धाः श्रीसमित सूरिमाकारयन् । आगतं तमापृच्छञ्छ्राद्धाः - एतस्मिँस्तापसे कीदृशी तपः शक्तिः ?, गुरुरुवाच - कापि नास्ति, केवलं पादलेपप्रयोगेणैव लोकान् वञ्चयते । अत्र संशयश्चेदेनं ' स्वगृहे भोक्तुं निमन्त्र्य पादौ चोष्णवारिणा संधाव्य भोजयत, ततो वेदिष्यथ कथमसौ नदीं तरति ?, इति तेऽपि तथाचकुः । भोजनान्ते तेन सह श्राद्धा अपि नदीनीरमागताः । योगी च दध्यौ - चेत्किञ्चिदपि लेपस्तद्योगात्तरिष्यामीति धिया प्रागिव चलितुं प्राविशत्; परन्तु लेपविरहात्पश्यत्सु सर्वेषु स ब्रूडितुं लग्नः । तदोपहसन्तः श्राद्धा दयया तमुद्धृतवन्तः । लोके तस्य महती निन्दा प्रससार । लोकानां प्रतिबुबोधयिषया सूरिरपि तत्राऽऽगात्,
३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org