Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 309
________________ ( २६४) श्रीकल्पसूत्रार्थप्रबोधिनी. च ज्योतिर्विद्यामदात् । अतोऽहं त्रैकालिकी वार्ता वेद्मि । तच्छ्रत्वा सर्वे लोकास्तं सच्चक्रुः, इत्थं सर्वेषां मनोगतं जल्पन्नुपादिकं तोषयन्नासीत् । तावत्तत्र भद्रबाहुरायातः। श्राद्धाश्च महामहं विधाय तं नगरं प्रावेशयन् । परं तदसहमानो वराहमिहिरो दध्यौ-यदेतस्य यथा मानभङ्गः स्यात् , तथाऽनुष्ठेयमेवेति ध्यात्वा नृपान्तिकं गत्वा सोचे-राजन् ! अद्यतनदिवसात्पञ्चमे दिने तृतीये यामे पूर्वस्या दिशः समागतो मेघो वर्षिष्यति । अत एतत्कुण्डालकं कुर्वे, एतस्य मध्यभागे च द्विपञ्चाशत्पलप्रमाणो मीनः पतिष्यति । तदुक्तं भविष्यद्वार्ता श्रुत्वा कश्चिच्छ्रावको भद्रबाहुं चचक्षे । सोऽवक्-सत्याऽसत्यमिश्रमस्ति । तन्मध्ये पतनमसत्यं तत्प्रान्ते पतनं सत्यम् । पूर्वदिश आगमनमसत्यमीशानकोणादागमिष्यतीति सत्यम् । तृतीययामोक्तमलीकं षट्पटिकावशेषे पतिष्यतीति सत्यम् । मीनस्य द्विपञ्चाशत्पलमानता मिथ्या, किन्तु सार्धेकपञ्चाशत्पलप्रमाण त्वं सत्यम् । ततः श्रावकाः सर्वमेतदाचार्यवचः क्षितिपतिमूचुः । राजा जगौ-तदिने द्वयोरुक्तौ प्रामाण्यमप्रामाण्यं वा भोत्स्ये। समायाते तदिने सूरिभाषितमेव साकल्येन मिलितम् , वराहमिहिरोक्तं तु सत्याsसत्यमिश्रमभूत् , अतस्तस्य लोके प्रतिष्ठाहानिर्जाता। अथैकदा राज्ञः पुत्रे जाते तस्य जन्मपत्रिका निर्माय, शतमायुर्भवितेति वराहमिहिरो राजानं प्रोचे । तदुत्सवे सर्वे लोका विविधोपहारैस्त्यागिनो विप्राश्च फलादिना नृपं वर्धयामासुः । केवलं जैनमुनयो नाऽऽगुः । तदाऽवसरमासाद्य वराहमिहिरो जगाद-राजन् ! इदं पुत्र. जन्म सर्वेषां सुखाय केवलमेकस्मै जैनमुनये न रुरुचे, यतः सोऽद्यापि तवान्तिकं नाऽऽगात् । इदमपि कश्चिच्छ्रावकः सूरिमचकथत । गुरुरुवाच-साधवोऽनेकधा नृपसदसि नो यान्ति, अवसरमासाद्य सत्युपयोगे सकृदेव यान्ति । अष्टमे दिवसे जातोऽसौ राजपुत्रो निशि बिलाडेन हनिष्यते तदा यास्यामि । गुरुभाषितं श्रावको नृपमजिज्ञपत् । राजा नग Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408