Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 322
________________ नवमं व्याख्यानम् । (२७७ ) एतस्याऽऽर्य समितनामा पुत्रः सुनन्दाभिधा दुहिता चासीत् । अथैकदा सिंहगिर्याचार्यपार्श्वे संसारमेनमसारं जानान आर्यसमितः प्रवृद्धेन भावेन दीक्षामाददिवान् । प्रब्रजिते च पुत्रे धनपालः स्वपुत्रीं सुनन्दां योग्यतमेन बहुगुणनिलयेन महर्द्धिकेन धनगिरिणा महताग्रहेणोदवाहयत् । तामुद्वाह्य धर्मरसिको धनगिरिः संसारसुखं भुञ्जानस्तस्थिवान् । अथाऽष्टापदतीर्थोपरि गौतमस्वामिना प्रतिबोधितो वैश्रमणो देवश्युत्वा सुनन्दाकुक्षौ गर्भत्वेनोदपद्यत । अस्मिन्नवाऽवसरेऽतिवैराग्यभावेनोल्लसितमानसो धनगिरिराचार्यसिंहगिरिणा दीक्षितो बभूवान् । ततः पत्यौ दीक्षिते सुनन्दा पुत्रं प्रासोष्ट, सम्बन्धिनश्च तज्जननोत्सवं चक्रिरे । तदोक्तं केनापि चेदद्यैतत्पिता धनगिरिरत्र तिष्ठेत्, ततजननमहामहो महीयाञ्जयेत । इत्याकर्ण्य जातमात्रोऽपि शिशुः प्राक्तनसंस्कारयोगाद्दध्यौ । यदेतदपारसंसारनिस्तारः परमार्थविचारे संगममन्तरा जात्वपि नैव सम्भवति, इति मयाऽप्यमुष्मिन्नेव सुपथे वर्त्तितव्यम्, नो चेदधः पतिष्यामि, एवं विमृश्य स शिशुः स्तन्यं पिपासुः सातत्येन रोदितुं लग्नः । तत्प्रतीकारं शतशः कृत्वापि तदरोदनमपश्यन्ती व्याकुलीभूय कथमपि तन्माता षण्मासान् व्यत्यैत् । तत्रैकदा सिंहगिरिराचार्यः शिष्यगणैरनुगत इतस्ततो विहरन् समाययौ । गुर्वादेशेन धनगिरिरार्यसमितेन सत्रा गोचर्ये चचाल । गुरुणाऽभाणि - भोः ! वेदद्य गोचर्यां सचित्तमचित्तं मिश्रं वा लभ्येत, तर्हि दोषाऽदोषविमर्शमकृत्वैव तल्लातव्यम्, इति गुरुवचस्तथास्त्विति निगद्य सुनन्दासदनमगात् । साऽवक् भोः ! तावकोऽसौ डिम्भकस्त्वमेव गृहाण, यदजखं रोरुद्यते, तद्रोदनेनाऽहं भृशमुद्विग्नास्मि चेत्तवैव पार्श्वे स्थित्वाऽसौ सुखमनुभवेत्, तर्हि तत एव मनिष्ये ऽधिकं सुखमहमपि । धनगिरिस्तत्सखीः, तद्बन्धुमार्यसमितं च साक्षीकृत्य झोलिकायां तं शिशुं निधाय धर्मलाभं च दत्त्वा गुरोः पार्श्वमागात् । गुरुश्च तत्पाणे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408