Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 308
________________ नवमं व्याख्यानम् । ( २६३) वर्षाणि गार्हस्थ्ये, ११ वर्षाणि दीक्षायाम्, २३ वर्षाणि युगप्रधानपदे, एवं सर्वायुः ६२ वर्षाणि परिपाल्य, श्रीवीरविभोर्निर्वाणतोऽष्टनवतितमे वर्षे स्वासने यशोभद्रं निवेश्य कालं कृत्वा सुरलोकमगमत् । ११७ श्रीभद्रबाहुस्वामिनः कथा -- शय्यम्भवसूरिपट्टे यशोभद्रसूरिस्तुङ्गियायनगोत्रीयो निषसाद । स च द्वाविंशतिवर्षाणि गृहवासे, चतुर्दशवर्षाणि दीक्षायाम् , पञ्चाशद्वणि युगप्रधानपदे चैवं सर्वायुः षडशीतिवर्षाणि परिपूर्य, स्वपट्टे सम्भूतिविजय-भद्रबाहुनामानौ शिष्यौ संस्थाप्य, श्रीवीरनिर्वाणतोऽष्टचत्वारिंशदधिकशताब्द्यां देवलोकमगमत् । माठरगोत्रीयः श्रीसम्भूतिविजयोऽपि गृहवासे ४२ वर्षाणि, दीक्षापर्याये ४० वर्षाणि, युगप्रधानपदे च ८ व. र्षाणि स्थित्वा, सर्वायुः ९० वर्षाण्युपभुज्य वीरनिर्वाणतः षट्पञ्चाशदधिकशततमे वर्षे सुरलोकमगमत् । श्रीभद्रबाहोः कथा चैवम् प्रतिष्ठानपुरवासिनौ प्राचीनगोत्रीयौ द्वौ वराहमिहिर-भद्रबाहुनामानौ सोदरौ ब्राह्मणौ श्रीयशोभद्रसूरिमुखाद्देशनां श्रुत्वा तत्पार्श्वे दीक्षा लात्वा चतुर्दशपूर्वानध्यैषाताम् । गुरवो विनयादिगुणयोगाद् भद्रबाहुमाचार्यमकार्षुः । वराहमिहिरमविनीतत्वात्तथैव मुमुचुः । वराहमिहिरो गुरौ द्वेषं वहन् वेषं परित्यज्य · वाराहीसंहिता' प्रमुखज्योतिःशास्त्रीयाsनेकान् ग्रन्थान् निर्माय नैमित्तिको भवॅल्लोकेषु स्वजीविकां प्रथयामास । 'भोः ! त्वया कस्य पार्श्वे किलेशी विद्या लेभे ? ' इति लोकैः पृष्टः स तानेवं वक्ति स्म-अहमेकदा नगरद्वारि शिलोपरि सिंहलग्नकुण्डलीममण्डयम् , तदलप्त्वैव गृहमागाम् । निशि शयनावसरे तदभञ्जनं स्मृत्वा लग्नभक्त्या च तत्र गत्वा कुण्डलिकास्थितं सिंहमपश्यम् । तथाप्यबिभ्यद्धस्तक्षेपेण तां विलुप्तवाँस्तेन सिंहलग्नाधिपतिः प्रसद्य, प्रत्यक्षीभूय वरं वृणीष्व, इति मामवादीत्। ततोऽहं खेटानां सञ्चारदर्शनं बब्रे। तदनु स निजमण्डलं नीत्वा सकलखग-सञ्चारं मामदर्शयत्, सकलां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408