Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 299
________________ ( २५४) श्रीकल्पसूत्रार्थप्रबोधिनी. न्तस्ते येत्र विप्राय गोस्वर्णभूमिशय्याऽऽसनभोजनपानादिकं वितरन्ति, तेषां पितरस्तत्सर्व स्वर्गे प्राप्नुवन्ति, तृप्तास्ते पितरः स्वस्त्रपुत्रादिकमाशिषा वर्द्धयन्ति । यतो हि ब्राह्मणा एव भूदेवाः स्रष्टारः सन्तीत्यादि कन्पितग्रन्थैः सकलञ्जगत्ते मोहयामासुः । क्रमशश्चेष आईतो धर्मो भगवतो धर्मनाथस्य शासनावधि कादाचित्कमुदयं लभमानो बाहुल्येन काश्येमेवाऽध्यगच्छत् । एतत्सप्तजिनान्तरे विप्राः सर्वतः प्राबल्यं नीताः स्वार्थपारवश्येन तानेव चतुर आर्यवेदान् ऋग्यजुःसामाऽथर्वेति नामान्तरेण लोके प्रख्यापयामासुः । प्रतिसमयमेतेऽपि परिवर्तनमापुः । यदा च यः प्राधान्यमगात् तदा तेन स्व. कपोलकल्पितश्रुतिभिरेते प्रवर्द्धिता:, बभाषिरे चैषु वेदेष्वपौरुषेयत्वमेतदमन्तारो नास्तिका इति च बहुशो लिलिखुः । तेषु श्रुतयो विशेषतो हिंसाप्रधाना यज्ञार्थे निर्ममिरे । याज्ञवल्क्यपिष्पलाद्यास्तु गजतुरगमेधादेरपि यजनयाजनप्रचारं बाहुबल्येन चक्रुः । ततो मुनिसुव्रतनाथस्य शासनान्तरे वसुराजः पर्वतश्च महाकालव्यन्तरसाहाय्येन हिंसामयं यज्ञं यावदवरीवृध्येताम् , तावतामुल्लेखः कत्तुमपि नैव शक्यते । एतदिदानीन्तना ऐतिहासिका यथावनिश्चिक्यिरे-यन्महावीरबुद्धाभ्यां प्रागेतस्मिन् भारते यज्ञीयहिंसनेन रुधिरतटिन्यो वहन्ति स्म । एतावेव महान्तौ सर्वान् धर्मगिरा प्रतिबोध्य तदवद्यं निवयं जगति शान्तिमतिष्ठिपताम् । __१० भगवाञ्छ्रीशीतलनाथोऽच्युतदेवलोकाच्च्युत्वा राधकृष्णषष्ट्यां तिथ्यां भद्दिलपुरवरे राज्ञो दृढरथस्य नन्दाराच्या गर्भेऽवतीर्य, तपःकृष्णद्वादश्यां जातो नवतिधनुः प्रमाणः, सुवर्णवर्णः, श्रीवत्साङ्कः कृतदारग्रहो मुक्तराज्यो माघकृष्ण द्वादश्यां सहस्रपु. रुषैः साकं दीक्षितो घोरं तपस्यन् पौषकृष्ण चतुर्दश्यां कैवन्यज्ञानमासादितवान् । अमुष्य नन्दप्रमुखाः श्रमणाः १०००००, सुयशाप्रभृतयः साध्व्यः १००००६, श्रावका, २८९०००, श्राविकाश्च ४५८०००, लक्षपूर्वमायुः सम्पूर्य माघकृष्ण द्वितीयायां सम्मेतशिखरोपरि मोक्षमापत् । शासनश्चैकं सागरोपममवतेत । ११ श्रीश्रेयांसनाथो भगवानच्युतदेवलोकतश्युतो ज्येष्ठकृष्णषष्ठ्या सिंहपुरीनगरीयविष्णुराजस्य विष्णुदेवीरायाः कुक्षाववतीर्णः फाल्गुनकृष्णद्वादश्यामध्यजायत । अयमशीतिधनुष्प्रमाणः, स्वर्णवर्णः, खगिलाञ्छनः कृतोद्वाहो भुक्त्वा च राज्यं तपस्यकृष्णत्रयोदश्यां सहस्रपुरुषैः सहाऽऽत्तदीक्षा, कुर्वन्नतिघोरं तपस्तपःकृष्णतृतीयायां कैवल्यमाससाद । कच्छपादिमुनयः ८४०००, धारणीप्रमुखसाध्व्यः १०३०००, श्रावकाः २७९०००, श्राविकाश्च ४४८०००, चतुरशीतिलक्षवर्षमायुः परिपूर्य नमःकृष्णत. तीयायां सम्मेतशिखरोपरि सिद्धो जज्ञे । चतुष्पश्चाशत्सागरोपमं यावदेतच्छासनमतिष्ठत् । १२ श्रीवासुपूज्यजिनः प्राणतदेवलोकाच्च्युतः ज्येष्ठ शुक्लनवम्यां चम्पापुरीनगरा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408