Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 305
________________ (२६०) श्रीकल्पसूत्रार्थप्रबोधिनी. वसुषेण-वसुपालिताभिधानष्टौ श्वशुगन् , पद्मवती-कनकमाला-विजयश्री-धनश्री-कनकवती-श्रीषेणा-वीरमती-जयसेना इत्यष्ट श्वश्रूश्च, प्रभवादिपञ्चशतचौरान्, निजमातापितरौ चानेकहेतुदृष्टान्तैर्वैराग्यमुत्पाद्य, सर्वैः सह षोडशवर्षीयानेव महामहेन श्रीसुधर्मस्वामिनः पार्थे दीक्षामग्रहीत् । ततो द्वादशाङ्गीमभ्यस्याऽऽचार्यपदभागध्यजायत । समवाप च घोरतरातिदुष्करतपोऽनुष्ठानेनैष कैवल्यज्ञानम् । व्यगमच्चैतस्य षोडशाब्दी गार्हस्थ्ये । गताश्च विंशत्यब्दा दीक्षापर्याये, चतुश्चत्वारिंशच्च हायनानि कैवल्यपर्याये । एवमशीतिवर्षायुष्कं सकलं परिपूर्य प्रभवस्वामिनं स्वपट्टे निवेश्य, वीरनिर्वाणतश्चतुष्षष्टितमे वर्षे जनन-मरणहापकं मोक्षमध्यगच्छत् । निर्वृते चामुके १ मनःपर्यवज्ञानम् , २ परमावधिज्ञानम् , ३ केवलज्ञानम् , ४ पुलाकलब्धिः , ५ आहारकशरीरलब्धिः, ६ क्षपकश्रेणी, ७ उपशमश्रेणी, ८ जिनकल्पः, ९ यथाख्यातपरिहारविशुद्धि-सूक्ष्मसम्परायचारित्रत्रयी, १० सिद्धिगमनमिमानि दशवस्तून्यस्मिन् भरतक्षेत्रे व्यच्छिदन् । असौ जम्बू मुक्तिमधिगत्य परस्मै नाऽदात्, प्यधाच्च सिद्धेरिम्, अत एवैतस्मिन् नैसर्गिक कार्पण्यं निगदन्ति कवयः। अत्यद्भुतमेतत् यन्मुक्तिरप्येनं वृत्वाऽपरं कमपि नाऽवृणोत् सतीव । ईदृक्षः कोपालोऽप्यन्यो नाऽभूत् , यत् पञ्चशत. चौरानपि संयतानकरोत् । ११५ श्रीप्रभवस्वामिनः कथा__ जम्बूस्वामिनः पट्टे कात्यायनगोत्रीयः प्रभवस्वामी बभूव । स हि विन्ध्यनगासन्ने जयपुरपत्तनाधिपति-विन्ध्यमहीपतेः पुत्रौ प्रभव-प्रभुनामानौ जातौ । राजा केनापि हेतुना लघुपुत्राय राज्यमदात् । ततः कोपात्प्रभवो गृहान्निर्गत्य विन्ध्याचलीयदुर्गमस्थाने निवसँश्चौर्यादिना १ अमुष्य सारगर्भितं विस्तं वैराग्यपूर्ण चरित्रं बुभुत्सुना श्रीहेमचन्द्राचार्यरचितं • त्रिषष्टिशलाकापुरुषचरित्रं ' ' सिरिजंबूचरियं ' चाऽवलोकनीयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408