Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 300
________________ अष्टमं व्याख्यानम् । (२५५) धिपतिवसुपूज्यक्षितिपतेर्जयादेवीराच्या गर्भवतीर्य तपस्याऽसितचतुर्दश्यां जाता, सप्ततिधनुष्प्रमाणो रक्तवर्णो महिषलाञ्छनो गृही राज्यभोगी च भृत्वा, फान्गुनपूर्णिमायां पुरुषाणां षट्शत्या सत्रा दीक्षितो भूत्वा तपकुर्वन् माघशुक्लद्वितीयायां कैवन्यज्ञानमा. तवान् । अमुष्य सुभूमादिमुनयः ७२०००, धरण्यादय आर्याः १०००००, श्रमणोपासकाः २१५०००, श्रमणोपासिकाश्च ४३६०००, द्वासप्ततिलक्षवर्षायुरुपभुज्य शुचिशुक्लचतुर्दश्यां चम्पापुर्यामेव निवृतिं लेभे । अस्य शासनं त्रिंशत्सागरोपमं यावदतिष्ठत् । १३ श्रीविमलनाथप्रभुः सहस्रारदेवलोकतश्युत्वा वैशाखशुक्लद्वादश्यां काम्पिल्यपुरे कृतवर्मणो राज्ञः श्यामाराध्याः कुक्षाक्वतीय माघशुक्लतृतीयायां प्रादुर्भूय षष्टिधनुप्रमाणः, सुवर्णवर्णो, वराहलाञ्छनः कृतदारराज्योपभोगस्तप:शुक्लचतुर्थ्यां सहस्रपुरुषैः साधे दीक्षां गृहीत्वा तपस्यां कुर्वन् पोषसितषष्ट्यां केवलज्ञानमलब्ध । अमुष्य मन्दिरप्रमुखा मुनयः ६८०००, धरादिका आर्यिकाः १००८००, श्रावकाः २०८०००, श्राविकाच ४२४०००, प्रान्ते षष्टिलक्षवर्षायुष्क आषाढकृष्णसप्तम्यां सम्मेतशिखरोपरि निर्वाणत्वमियाय । नवसागरोपमकालावधिशासनमत्राऽवर्तत ।। १४ अनन्तनाथतीर्थपः श्रावण कृष्णसप्तम्यां प्राणतदेवलोकतश्युत्वाऽयोध्याधिपतिसिंहसेनराजस्य सुयशाराश्याः कुक्षाववतीर्य माधवाऽसितत्रयोदश्यां जनिर्लेभे । पश्चाशद्धनुष्प्रमाणः, स्वर्णाभः, श्येनलाञ्छनः समुपभुक्तदारराज्यो वैशाखकृष्णचतुर्दश्यां सहस्रपुरुषैः सहाऽऽत्तदीक्षस्तपस्तीनं विधाय रावाऽसितचतुर्दश्यामधिगतकैवल्यो बभूवान् । यशस्विप्रमुखाः साधकः ६६०००, पद्माद्याः साध्व्यः ८२०००, श्रावकाः २०६०००, श्राविकाश्च ४१४०००, त्रिंशलक्षवर्षमायुः परिपूर्य मधुसितपञ्चम्यां सम्मेतशिखरोपरि निवृतोऽभवत् । चतुःसागरोपमं शासनमस्थादमुष्य भगवतः। १५ श्रीधर्मनाथप्रभुर्विजयविमानतश्युत्वा वैशाखसितसप्तम्यां रत्नपुरीयभानुक्षितिधवस्य सुव्रताराज्याः कुक्षाववतीर्य माघशुक्रवतीयायां जनुर्ललौ । असौ पश्चचत्वारिंशद्धनुष्प्रमाणः, स्वणोभो वज्राङ्कः सम्भुक्तदारराज्यस्तपःसितत्रयोदश्यां पुरुषाणां सहस्रेण सह दीक्षां लात्वा, कृत्वा च तपस्तीवं पौष्यां पूर्णिमायां कैवल्यज्ञानमीयिवान् । अरिष्टादयो मुनयः ६४०००, प्रायशिवाद्या आर्यिकाः ६२४००, श्रावकाः २०४०००, श्राविकाश्च ४१३०००, इत्थं दशलक्षवर्षायुष्कः सम्मेतशिखरोपरि ज्येष्ठशुक्लपञ्चम्यां सिद्धोऽभवत् । त्रिसागरोपमं यावदभूदेतच्छासनम् । १६ श्रीशान्तिनाथो भगवान् सर्वार्थसिद्धिविमानाच्युत्वा भाद्रकृष्णसप्तम्या हस्तिनापुरे ( गजपुरे ) विश्वसेननरपतेरचिरादेवीराख्या गर्नेऽवतीर्य ज्येष्ठकृष्ण त्रयोदश्यां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408