________________
अष्टमं व्याख्यानम् ।
(२५५) धिपतिवसुपूज्यक्षितिपतेर्जयादेवीराच्या गर्भवतीर्य तपस्याऽसितचतुर्दश्यां जाता, सप्ततिधनुष्प्रमाणो रक्तवर्णो महिषलाञ्छनो गृही राज्यभोगी च भृत्वा, फान्गुनपूर्णिमायां पुरुषाणां षट्शत्या सत्रा दीक्षितो भूत्वा तपकुर्वन् माघशुक्लद्वितीयायां कैवन्यज्ञानमा. तवान् । अमुष्य सुभूमादिमुनयः ७२०००, धरण्यादय आर्याः १०००००, श्रमणोपासकाः २१५०००, श्रमणोपासिकाश्च ४३६०००, द्वासप्ततिलक्षवर्षायुरुपभुज्य शुचिशुक्लचतुर्दश्यां चम्पापुर्यामेव निवृतिं लेभे । अस्य शासनं त्रिंशत्सागरोपमं यावदतिष्ठत् ।
१३ श्रीविमलनाथप्रभुः सहस्रारदेवलोकतश्युत्वा वैशाखशुक्लद्वादश्यां काम्पिल्यपुरे कृतवर्मणो राज्ञः श्यामाराध्याः कुक्षाक्वतीय माघशुक्लतृतीयायां प्रादुर्भूय षष्टिधनुप्रमाणः, सुवर्णवर्णो, वराहलाञ्छनः कृतदारराज्योपभोगस्तप:शुक्लचतुर्थ्यां सहस्रपुरुषैः साधे दीक्षां गृहीत्वा तपस्यां कुर्वन् पोषसितषष्ट्यां केवलज्ञानमलब्ध । अमुष्य मन्दिरप्रमुखा मुनयः ६८०००, धरादिका आर्यिकाः १००८००, श्रावकाः २०८०००, श्राविकाच ४२४०००, प्रान्ते षष्टिलक्षवर्षायुष्क आषाढकृष्णसप्तम्यां सम्मेतशिखरोपरि निर्वाणत्वमियाय । नवसागरोपमकालावधिशासनमत्राऽवर्तत ।।
१४ अनन्तनाथतीर्थपः श्रावण कृष्णसप्तम्यां प्राणतदेवलोकतश्युत्वाऽयोध्याधिपतिसिंहसेनराजस्य सुयशाराश्याः कुक्षाववतीर्य माधवाऽसितत्रयोदश्यां जनिर्लेभे । पश्चाशद्धनुष्प्रमाणः, स्वर्णाभः, श्येनलाञ्छनः समुपभुक्तदारराज्यो वैशाखकृष्णचतुर्दश्यां सहस्रपुरुषैः सहाऽऽत्तदीक्षस्तपस्तीनं विधाय रावाऽसितचतुर्दश्यामधिगतकैवल्यो बभूवान् । यशस्विप्रमुखाः साधकः ६६०००, पद्माद्याः साध्व्यः ८२०००, श्रावकाः २०६०००, श्राविकाश्च ४१४०००, त्रिंशलक्षवर्षमायुः परिपूर्य मधुसितपञ्चम्यां सम्मेतशिखरोपरि निवृतोऽभवत् । चतुःसागरोपमं शासनमस्थादमुष्य भगवतः।
१५ श्रीधर्मनाथप्रभुर्विजयविमानतश्युत्वा वैशाखसितसप्तम्यां रत्नपुरीयभानुक्षितिधवस्य सुव्रताराज्याः कुक्षाववतीर्य माघशुक्रवतीयायां जनुर्ललौ । असौ पश्चचत्वारिंशद्धनुष्प्रमाणः, स्वणोभो वज्राङ्कः सम्भुक्तदारराज्यस्तपःसितत्रयोदश्यां पुरुषाणां सहस्रेण सह दीक्षां लात्वा, कृत्वा च तपस्तीवं पौष्यां पूर्णिमायां कैवल्यज्ञानमीयिवान् । अरिष्टादयो मुनयः ६४०००, प्रायशिवाद्या आर्यिकाः ६२४००, श्रावकाः २०४०००, श्राविकाश्च ४१३०००, इत्थं दशलक्षवर्षायुष्कः सम्मेतशिखरोपरि ज्येष्ठशुक्लपञ्चम्यां सिद्धोऽभवत् । त्रिसागरोपमं यावदभूदेतच्छासनम् ।
१६ श्रीशान्तिनाथो भगवान् सर्वार्थसिद्धिविमानाच्युत्वा भाद्रकृष्णसप्तम्या हस्तिनापुरे ( गजपुरे ) विश्वसेननरपतेरचिरादेवीराख्या गर्नेऽवतीर्य ज्येष्ठकृष्ण त्रयोदश्यां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org