________________
( २५६ )
श्री कल्पसूत्रार्थप्रबोधिनी.
जातश्चत्वारिंशद्धनुष्प्रमाणः, सौवर्णीङ्कान्ति, दधन्मृगलाञ्छनः कृतोद्वाहो राज्ये तिष्ठश्च - क्रवर्तीभूय ज्येष्ठकृष्णचतुर्दश्यां सहस्रपुरुषैः सत्रा दीक्षामादाय, तपस्यन् पौषसितनवम्यां केवलज्ञानमलभत । चक्रायुधप्रमुखा मुनयः ६२०००, शचीप्रमुखा आर्याः ६१६००, श्रावकाः १६००००, श्राविकाश्च ३९३०००, इयान् सम्प्रदायः । लचवर्षायुषः पूत्तौ ज्येष्ठ कृष्ण त्रयोदश्यां सम्मेतशिखरनगोपरि मोक्षमापत् | अविच्छिन्नं शासनमेतस्याऽर्धपन्योपमं चचाल ।
१७ श्री कुन्थुनाथतीर्थकर्त्ता सर्वार्थसिद्धिविमानत युतः श्रावणकृष्णनवम्यां हस्तिनापुरे शूरराजस्य श्रीदेवीराझ्या गर्भेऽवतीर्य वैशाखकृष्ण चतुर्दश्यां जज्ञे । आसीदेष पञ्चत्रिंशद्धनुर्मात्रः स्वर्णवर्णोऽजलाञ्छनः कमनीयगात्रः परिणीतः परिभुक्तराज्यचक्रवर्त्तिपदञ्चैत्र कृष्णपश्चम्यां सहस्रपुरुषैः सह दीक्षां लात्वा, विहिताऽनेककठोरतरतपःक्षीणकर्मा चैत्रशुक्लतृतीयायामुत्पन्न केवलज्ञानेन दिदीपे । साम्बादिमुनयः ६००००, दामनीप्रमुखा आर्याः ६०६००, श्रावकाः १७६०००, श्राविकाश्च ३८१०००, पञ्चनवतिसहस्रवर्षायुष्को वैशाखकृष्णप्रतिपदि सम्मेतशिखरोपरि शाश्वतं सुखं लेभे । पन्थोपमीयतुरीयांशं यावदवर्त्तिष्ट शासनमेतस्य ।
१८ श्री अरनाथ भगवान् सर्वार्थसिद्धिविमानतयुतस्तपस्य शुक्ल द्वितीयायां हस्तिनापुरे सुदर्शनक्षितिपतेः देवीराज्ञ्या गर्भेऽवतीर्णो मार्गशुक्लदशम्यां जन्म लेभे । बभूवाऽयं त्रिंशद्धनुष्प्रमाणः, कनकवर्णो, नन्दावर्त्तलाञ्छनः कृतोद्वाहः सम्भुक्तराज्यचक्रवर्त्तिपदः सहःशुक्लैकादश्यां सहस्रपुरुषैः सार्धमात्तदीक्षः, कार्त्तिकशुक्लद्वादश्यां कैवन्यमागजायत । कुम्भादिमुनयः ५००००, रक्षिताप्रभृतय श्रार्याः ६००००, श्रावकाः १८४०००, श्राविकाश्च ३७२०००, चतुरशीतिसहस्रवर्षायुष्कः सम्मेतशिखरोपरि सहःशुक्लदशम्यां मोक्षमगच्छत् । प्रचालीच्चैतच्छासनं वर्षकोटिसहस्रं यावत् ।
१६ श्रीमल्लिनाथजिनेशो जयन्तविमानाच्च्युतिं लब्ध्वा फाल्गुनसितचतुर्थ्यां मिथिलायां कुम्भमहीपस्य प्रभावतीराज्ञी कुक्षाववतीर्य मार्गशीर्षसितैकादश्यामजनिष्ट | पञ्चविंशतिधनुष्प्रमाणो, नीलवर्णः, कलशलाञ्छनः कौमारं वहमेव सहः शुक्कैकादश्यां त्रिशत पुरुषैः स्त्रीभिश्च तावतीभिः सह दीचां गृहीत्वा तद्रजन्यामेव कैवल्यज्ञानमाप्नोत् । अभीक्षकादिमुनयः ४००००, बिन्दुमतीप्रमुखा आर्याः ५५०००, आवकाः १८३०००, श्राविकाश्च ३७००००, पञ्चपञ्चाशत्सहस्र ऽऽब्दिकमायुः पूरयित्वा फाल्गुन शुक्लद्वादश्यां सम्मेतशिखरोपरि मुक्तित्रियम्भेजे । शासनं पञ्चचत्वारिंशत्सहस्राब्दीं प्रावर्त्तताऽविsaनत्वेन ।
१० श्रीमुनिसुव्रत तीर्थ कर्त्ताऽपराजितविमानतश्युतः श्रावण पूर्णिमायां राजगृह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org