________________
अष्टमं व्याख्यानम् ।
( २५७) नगरे सुमित्रक्षितीशस्य पावत्या राड्या गर्नेऽवततार । क्रमशः शुक्रासिताऽष्टम्यामजनि । शरीरममुष्य विंशतिधनुष्प्रमाणम् , श्यामवर्णः, कमललाञ्छनः, सुन्दराकारः, कृतोद्वाहः, समुपभुक्तराज्यः, फान्गुनसितद्वादश्यां सहस्र पुरुषैः सहाऽऽत्तदीक्षः, तपस्यन् फान्गुनाऽसितद्वादश्यां कैवल्यश्रियं भेजे । मनप्रमुखा मुनयः ३००००, पुष्पमतीप्रभृ. तय आयोः ५०००, श्रावकाः १७२०००, श्राविकाश्च ३५००००, त्रिंशत्सहस्राऽब्दायुः सम्पूर्य ज्येष्ठकृष्ण नवम्यां सम्मेतशिखरनगोपरि निर्वाणमापत् । षष्टिलक्षवर्षाणि शासनं तदीयं चचाल ।
२१ श्रीनमिनाथतीर्थपतिः प्राण तदेवलोकान्च्युत्वाऽऽश्विन पूर्णिमायां मिथिलानगयाँ विजयराजस्य विप्राराच्या गर्मेऽवतीर्य श्रावण कृष्णाऽष्टम्यामजनिष्ट । पञ्चदशध. नुष्प्रमाण कः, कमलाङ्कः, कृतोद्वाहो भुक्तराज्य आपाढकृष्ण नवम्यां सहस्रपुरुषैः सह दीक्षामादाय मार्गशीर्षसितैकादश्यां केवलज्ञानमनन्तदर्शनश्च लेभे । शुभादिमुनयः २००००, अनिलादिसाध्व्यः ४१०००, श्रावकाः १७००००, श्राविकाश्च ३४८०००, दशसहस्रवर्षायुः सम्पूर्थ वैशाख कृष्णदशम्यां सम्मेतशिखरतीर्थोपरि मोक्षमलब्ध । पश्च. लक्षाऽब्दी यावदचालीच्छासनमतस्य भगवतः । इति श्रीवीरजिनशासनशृङ्गारहार-सुविहितसूरिपुरन्दरनन्दनवनाऽऽरामविहारि-शिथिलाऽऽचारप्रचारतमोहारि-जैनाचार्य-भट्टारकश्रीमद्विजयराजेन्द्रसूरीश्वर-सङ्कलितायां श्रीकल्पसूत्रार्थप्रबोधिनी'
नाम्न्यां टीकायाश्चाऽष्टमं व्याख्यानं समाप्तम् ।
अथ नवमं व्याख्यानं प्रारभ्यते ।
-* *१:३ श्रीवीरविभोर्गणधरगच्छयोः संख्यानम् -
अथ भगवतो महावीरस्य ज्यायान् गणधर इन्द्रभृतिर्गौतमगोत्रीयोऽनगारः पञ्चशतसाधूनध्यापयन्नासीत् । अतस्तेषामेकतीर्थानामेक एव गच्छोऽभवत् । सति च वाचनाभेदे गच्छेषु भेदो जायते । वाचनाभेदस्तु केवल्युक्तवचांसि सूत्रादिरूपेण प्रथ्नतां गणधराणां शब्दरचनाभेदाज्जातोऽस्ति । यतः शब्दानामनेकत्वादेको गणधरो येन शब्देन जय३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org