________________
(२५)
श्रीकल्पसूत्रार्थप्रबोधिनी. न्थ, द्वितीयस्तदेव शब्दान्तरेणाऽग्रथ्नात् । अत एव वाचनासु वाङ्मात्रएव भेदो दरीदृश्यते, बोधस्त्वेक एवास्ति । द्वितीयो भ्राताग्निभूतिरनगा. रो गौतमगोत्रः श्रमणानां पञ्चशती वाचयति । कनिष्ठभ्राता वायुभूति रपि गौतमगोत्रः पञ्चशतसाधून वाचयति, एते त्रयोऽपि सांसारिकसो दराः सन्ति । तुरीयो गणधर आर्यव्यक्तनामा स्थविरो भारद्वाजगोत्रः पञ्चशतानि श्रमणान् वाचयति । पञ्चमः स्थविर आर्यसुधर्माग्निवैश्या यनगोत्रः पञ्चशतसाधुभ्यो वाचनां ददाति । षष्ठः स्थविरो मण्डितपुत्रो वसिष्ठगोत्रोद्भूतः श्रमणानां सार्धशतत्रयीमध्यापयति । सप्तमः स्थविरो मौर्यपुत्रः काश्यपगोत्रः सार्धत्रिशतश्रमणानां वाचकः । अष्टमः स्थवि रोऽकम्पितो गौतमगोत्रो नवमस्त्वचलभ्राता हारितायनगोत्रोऽस्ति, इमावपि शत्रत्रयमुनिवाचकौ स्तः । एतयोयोर्वाचनैक्यादेक एव गच्छो गण्यते, मातुरैक्येऽपि पितृभेदाद् गोत्रभेदं तो लेभाते। तदा तज्जातो मृते भर्तरि पत्यन्तरकरणस्य व्यवहृतत्वात् । दशमैकादशस्थविरौ मेता. र्य-प्रभासौ कौडिन्यगोत्रौ भ्रातरौ स्तः, साधूनां त्रीणि त्रीणि शतानि वाचयतः । एतयोर्वाचनाया एकत्वादेक एव गणो मन्यते । इत्थं श्री. वीरविभोर्नवगच्छयामेकादश गणधरा आसन् । एकादशाप्येते गार्ह स्थ्याऽधीतचतुर्दशविद्या इन्द्रभूत्यादयो गणधरा आचाराङ्गादि-दृष्टिवा दान्त-द्वादशाङ्गीप्रणेतारश्चतुर्दशपूर्वधर्त्तारो राजगृहे नगरे मासिकपादः पोपगमनाऽनशनेन कालं कृतवन्तः । तेषु नवगणधरा भगवति महा वीरे जीवत्येव सिद्धिमापेदिरे । इन्द्रभूति-सुधर्माणी भगवतः पश्चात सिद्धिं गतौ । इतरगणधरीयशिष्यपारम्पर्यमपि भगवति सत्येव काल मकृत, विच्छिन्नतामापञ्च तेषां गच्छः । साम्प्रतं सर्वे साधवः सुधर्मग च्छीया एव सन्ति । काश्यपगोत्रस्य श्रीवीरजिनस्य पट्टे ज्यायस इन्द्र भृतेः केवलित्वादयमेव पञ्चमो गणधरोऽग्निवैश्यायनगोत्र आर्यसुधर्मा निषसाद ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org