________________
( २५४)
श्रीकल्पसूत्रार्थप्रबोधिनी. न्तस्ते येत्र विप्राय गोस्वर्णभूमिशय्याऽऽसनभोजनपानादिकं वितरन्ति, तेषां पितरस्तत्सर्व स्वर्गे प्राप्नुवन्ति, तृप्तास्ते पितरः स्वस्त्रपुत्रादिकमाशिषा वर्द्धयन्ति । यतो हि ब्राह्मणा एव भूदेवाः स्रष्टारः सन्तीत्यादि कन्पितग्रन्थैः सकलञ्जगत्ते मोहयामासुः । क्रमशश्चेष आईतो धर्मो भगवतो धर्मनाथस्य शासनावधि कादाचित्कमुदयं लभमानो बाहुल्येन काश्येमेवाऽध्यगच्छत् । एतत्सप्तजिनान्तरे विप्राः सर्वतः प्राबल्यं नीताः स्वार्थपारवश्येन तानेव चतुर आर्यवेदान् ऋग्यजुःसामाऽथर्वेति नामान्तरेण लोके प्रख्यापयामासुः । प्रतिसमयमेतेऽपि परिवर्तनमापुः । यदा च यः प्राधान्यमगात् तदा तेन स्व. कपोलकल्पितश्रुतिभिरेते प्रवर्द्धिता:, बभाषिरे चैषु वेदेष्वपौरुषेयत्वमेतदमन्तारो नास्तिका इति च बहुशो लिलिखुः । तेषु श्रुतयो विशेषतो हिंसाप्रधाना यज्ञार्थे निर्ममिरे । याज्ञवल्क्यपिष्पलाद्यास्तु गजतुरगमेधादेरपि यजनयाजनप्रचारं बाहुबल्येन चक्रुः । ततो मुनिसुव्रतनाथस्य शासनान्तरे वसुराजः पर्वतश्च महाकालव्यन्तरसाहाय्येन हिंसामयं यज्ञं यावदवरीवृध्येताम् , तावतामुल्लेखः कत्तुमपि नैव शक्यते । एतदिदानीन्तना ऐतिहासिका यथावनिश्चिक्यिरे-यन्महावीरबुद्धाभ्यां प्रागेतस्मिन् भारते यज्ञीयहिंसनेन रुधिरतटिन्यो वहन्ति स्म । एतावेव महान्तौ सर्वान् धर्मगिरा प्रतिबोध्य तदवद्यं निवयं जगति शान्तिमतिष्ठिपताम् ।
__१० भगवाञ्छ्रीशीतलनाथोऽच्युतदेवलोकाच्च्युत्वा राधकृष्णषष्ट्यां तिथ्यां भद्दिलपुरवरे राज्ञो दृढरथस्य नन्दाराच्या गर्भेऽवतीर्य, तपःकृष्णद्वादश्यां जातो नवतिधनुः प्रमाणः, सुवर्णवर्णः, श्रीवत्साङ्कः कृतदारग्रहो मुक्तराज्यो माघकृष्ण द्वादश्यां सहस्रपु. रुषैः साकं दीक्षितो घोरं तपस्यन् पौषकृष्ण चतुर्दश्यां कैवन्यज्ञानमासादितवान् । अमुष्य नन्दप्रमुखाः श्रमणाः १०००००, सुयशाप्रभृतयः साध्व्यः १००००६, श्रावका, २८९०००, श्राविकाश्च ४५८०००, लक्षपूर्वमायुः सम्पूर्य माघकृष्ण द्वितीयायां सम्मेतशिखरोपरि मोक्षमापत् । शासनश्चैकं सागरोपममवतेत ।
११ श्रीश्रेयांसनाथो भगवानच्युतदेवलोकतश्युतो ज्येष्ठकृष्णषष्ठ्या सिंहपुरीनगरीयविष्णुराजस्य विष्णुदेवीरायाः कुक्षाववतीर्णः फाल्गुनकृष्णद्वादश्यामध्यजायत । अयमशीतिधनुष्प्रमाणः, स्वर्णवर्णः, खगिलाञ्छनः कृतोद्वाहो भुक्त्वा च राज्यं तपस्यकृष्णत्रयोदश्यां सहस्रपुरुषैः सहाऽऽत्तदीक्षा, कुर्वन्नतिघोरं तपस्तपःकृष्णतृतीयायां कैवल्यमाससाद । कच्छपादिमुनयः ८४०००, धारणीप्रमुखसाध्व्यः १०३०००, श्रावकाः २७९०००, श्राविकाश्च ४४८०००, चतुरशीतिलक्षवर्षमायुः परिपूर्य नमःकृष्णत. तीयायां सम्मेतशिखरोपरि सिद्धो जज्ञे । चतुष्पश्चाशत्सागरोपमं यावदेतच्छासनमतिष्ठत् ।
१२ श्रीवासुपूज्यजिनः प्राणतदेवलोकाच्च्युतः ज्येष्ठ शुक्लनवम्यां चम्पापुरीनगरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org