________________
अष्टमं व्याख्यानम् ।
(२५३) ७ सुपार्श्वनाथविभुमध्यमवेयकाच्च्युत्वा भाद्रकृष्णाऽष्टम्यां वाराणसीनगरीयप्रतिष्ठितराजस्य पृथ्वीराज्याः कुक्षाववतीर्य ज्येष्ठ शुक्लद्वादश्यामाविरभूत् । बभूवांश्चायं शतद्वयधनुष्प्रमाणाः, स्वस्तिकलान्छनः, स्वर्णवर्णः कृतदारराज्योपभोगः। श्रात्तवानसौ ज्येष्ठशुक्रत्रयोदश्यां सहस्रपुरुषैः सार्धं दीक्षाम् । प्राप्तवांस्ततस्तपस्याऽसितषष्ठ्यां केवलज्ञानमनन्तदर्शनश्च । विदर्भादिमुनयः ३०००००, सोमादय आर्याः ४३००००, श्रा. वकाः २५७०००, श्राविकाच ४९३०००, इत्थं कृतपरिवारो भगवान् विंशतिलक्षपूर्वमायुः पूर्णीकृत्य फाल्गुनाऽसितसप्तम्यां संमेतशिखरोपरि मोक्षचगाम । नवशतकोटिसागरोपमकालपर्यन्तमेतच्छासनमासीत् ।
___८ श्रीचन्द्रप्रभजिनो विजयविमानतश्युतश्चैत्र कृष्णपञ्चम्यां चन्द्रपुरीनगार्या महासेनराजस्य लक्ष्मणाराझ्या गर्भेऽवतीर्य पौषकृष्णद्वादश्यामजायत । एष सार्धशतधनुदेहः, शुभ्रवर्णः, शशभृदङ्कः कृतपाणिग्रहो राज्यं भुक्त्वा, पौषकृष्णत्रयोदश्यां सहस्रपुरुषैः सत्रा प्रव्रज्य फाल्गुनकृष्णसप्तम्यां केवलज्ञानमलब्ध । दिनप्रमुखा मुनयः २५००००, सुमनादिसाव्यः ३८००००, श्रावकाः २५००००, श्राविकाश्च ४७६०००, दशलक्षपूर्वमायुः परिपूर्य भाद्रकृष्णसप्तम्यां सम्मेतशिखरतीर्थोपरि मोचमगात् । नवतिकोटिसागरोपमं यावदेतच्छासनमिहाऽस्थात् ।
९ सुविधिनाथ( पुष्पदन्त )तीर्थप आनतविमानाच्युत्वा फान्गुनकृष्णनवम्यां काकन्दीनगरे सुग्रीवनृपस्य रामाराश्या गर्भेऽवतीये सहा कृष्णपञ्चम्यामुत्पेदे । शरीरमस्य शतधनुष्प्रमाणं, सितवर्णाभो मकरचितिः कृतोद्धाहो राज्यमुपमुज्य सहस्रमनुजैः समं मार्गकृष्णषष्ठ्यामात्तदीक्षः, कार्तिकसिततृतीयायां कैवल्यमाप्नोत् । वराहप्रभृतयः साधवः २०००००, वारुण्यादिसाव्यः २२००००, श्राद्धाः २२६०००, श्रमणोपासिकाच ४७६०००, सर्वमायुर्द्विलक्षपूर्वमापूर्य भाद्रशुक्लनवम्यां सम्मेतशिखरोपरि सिद्धोऽभवत् । नवकोटिसागरोपमं शासनमेतस्य प्रवृत्तमासीत् ।
सुविधिनाथे सिद्धिमुपगते सत्यल्पकालेनैव चतुर्धात्मकः सङ्घः सहसत्याऽऽगमैः समुच्छिमतामापत् । तदवसरे राजमहाराजप्रमुखसमस्तजनतासु मामामाना जैनब्राह्मणा भगवदादिनाथजिनोपदिष्टाऽऽनुपूज्यों भरतचक्रवर्तिरचितजगत्कल्याणकरान् संसारदर्शन-स्थापनपरामर्शन-तत्त्वबोध-विद्याप्रबोधाऽऽख्यचतुर भार्यवेदानपि स्वार्थसिपाघयिषया जगदश्चनाय परिवर्तयितुं लग्नाः। हन्त ! ये निःस्वार्थधिया जगन्मङ्गलकारिणः पन्थानः सरला आसंस्तेऽपि करालकालमहिम्ना स्वार्थसाधनमात्रपटिष्ठैविप्रामासैर्लोकवश्कतां निन्यिरे । तदन्येऽपि कियन्तो नवनवा धर्मग्रन्था निर्मभिरे, तेषु स्थले स्थले गोभूमिहिरण्यशय्याऽऽसनादिदानदापनविधानं स्वर्गमनसोपानमूचिरे । तावताऽप्यतुष्य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org