________________
( २५२)
श्रीकल्पसूत्रार्थप्रबोधिनी. सौवर्णच्छविकस्तुरगाङ्कः, कृतपाणिग्रहोऽनुभूतराज्यसुखः, सहसि पूर्णिमायां सहस्रनृपालगणैः सह दीक्षां ललौ। घोरं तपस्यतश्चाऽस्य कार्तिककृष्ण पञ्चम्यामनन्तकेवलज्ञानदर्शने समुत्पेदाते । चार्वादिसाधवः २०००००, श्यामादय आर्यिकाः ३३६०००, श्रावकाः २९३०००. श्राविकाश्च ६३६०००, इत्थमेष षष्टिलक्षपूर्वमायुः सम्पूर्य प्रान्ते सम्मेतशिखरे चैत्रसितपञ्चम्यां मोचमभजत । प्रमुष्य शासनं दशलचकोटिसागरोपमं यावत्प्रावृतत् ।
४ श्रीमदमिनन्दनजिनपतिर्जयन्तविमानाच्च्युतः सन् वैशाखस्य सितपक्षीयचतुर्थ्यामयोध्यानगरे सम्बरराजस्य सिद्धार्थाया राश्याः कुक्षाववतीणेः क्रमशो माघशुऋद्वितीयायां प्रादुरासीत् । सार्धशतत्रयधनुष्प्रमाणगात्रः, स्वर्णवर्णः, कपिलाञ्छनः, कृतदारराज्यसुखस्तपःशुक्लद्वादश्यां सहस्रनरपालैः सह प्रवजितः। पौषकृष्णचतुर्दश्यामनन्तकेवलज्ञानदर्शने संलेभे । अमुष्य भगवतो वज्रनाभादिसाधवः ३०००००, भजितादिसाव्यः ६३००००, श्रावकाः २८८०००, श्राविकाश्च ५२७०००, इत्थं परिवारसम्पत्तिरजायत । सर्व पश्चाशनक्षपूर्वमायुरापूर्य वैशाखसिताऽष्टम्यां सम्मेतशिखरोपरि खन्वेष मोक्षमापेदे । शासनश्चैतस्य नवलक्षकोटिसागरोपमकालिकमिहातिष्ठत् ।
५ मुमतिनाथो भगवाञ्जयन्तविमानतश्युतः श्रावणशुक्लद्वितीयायामयोध्याधिपते राज्ञो मेघरथस्य मङ्गलाराझ्या गर्भेऽवातरत् , लेभे च वैशाखशुक्लाऽष्टम्यां जनिः । मासीदेष त्रिशतधनुप्रमाणः, कनकवर्णः, क्रौञ्चाङ्कः, समुपभुक्तदारराज्यसुखो वैशाखसितनवम्यां सहस्रमहीशैः सह दीक्षा लात्वा, तवा च घोरतरतपांसि चैत्रकृष्णकादश्यां कैवल्यभागजायत । एतस्य चरमप्रमुखाः साधवः ३२००००, काश्यपाप्रभृतय आर्यिकाः ५३००००, श्रावकाः २८१०००, श्राविकाश्च ५१६०००, इत्थं सङ्घस्थापनं विधाय चत्वारिंशतक्षपूर्वमायुः परिपूर्य, चैत्रशुक्लनवम्यां सम्मेतशिखरोपरि मोक्षमीयिवान् । नवतिसहस्रकोटिसागरोपमकालिकमेतच्छासनमस्थात् ।
६ श्रीपद्मप्रभस्तीर्थनवमौवेयकाच्च्युतस्तपःकृष्णपक्षीयषष्ट्यां कौशाम्बीनगरीयश्रीधरराजस्य सुसीमाराच्या गर्भेऽवतीर्य कार्तिककृष्णद्वादश्यां जन्माऽऽप्नोत् । असौ सार्धशतद्वयधनुर्मात्रो, रक्तवर्णः, पनाङ्कः, सुन्दराकृतिकः कृतदारग्रहो राज्यसुखमुपभुज्य कार्तिककृष्णत्रयोदश्यां सहस्रनरपतिभिः सह दीवाञ्जग्राह । चैत्रपूर्णिमायां केवलज्ञानमस्योत्पेदे । प्रद्योतनादिमुनयः ३३००००, रत्यादय आर्यिकाः ४२००००, श्रावकाः २७६०००, श्राविकाः ५०५०००, प्रान्ते त्रिशल्लक्षपूर्वमायुरुपभुज्य सह कृष्णैकादश्यां सम्मेतशिखरोपरि मोक्षमशिश्रियत । नवसहस्रकोटिसागरोपमकालिकी स्थितिमापदेतस्य शासनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org