________________
अष्टमं व्याख्यानम् ।
( २५१) ततस्तासु चितासु त्रयाणां रत्नमयानि त्रीणि पीठानि निर्माय, नन्दीश्वरद्वीपमागत्याऽऽष्टाहिकं महोत्सवं विधाय, सर्वे शकादयो देवाः स्वस्वस्थानमाययुः, तत्र स्वस्वसभासु वज्रमयसम्पुटकेषु जिनेन्द्रदंष्ट्राः संस्थाप्य, गन्धमाल्यधूपदीपादिविविधोपचारैः प्रत्यहमानचुः । अर्हति भगवति श्रीऋषभदेवे सर्वदुःखप्रक्षीणतामुपगते तृतीयारकस्याऽवशिष्टसार्धाऽष्टमासाधिकत्रिवर्ध्यामपि गतायां, सार्धाऽष्टमासाधिकत्रिवर्षोपरि द्विचत्वारिंशत्सहस्राब्दोनैककोटाकोटिसागरोपमे काले च तुर्यारकीयेऽतीते भगवान्महावीरो निर्वाणमापेदे । तदनु अशीत्यधिकनवशताब्द्यां याताया. मिदम्पुस्तकं देवर्द्धिगणिक्षमाश्रमणो लिलेख । ११२ श्रीअजितनाथमारभ्य नमिनाथपर्यन्तानां तीर्थपानां संक्षिप्तपरिचयः
२ अर्हन्नजितनाथो विजयविमानतश्युत्वाऽयोध्यायां त्रिज्ञानोपेतो जयशत्रुराजस्य विजयाराज्याः कुक्षौ वैशाखशुक्लत्रयोदश्यामवततार । ततो माता चतुर्दशशुभस्वप्नानीक्षाञ्चके । तत्फलानि नृपतिः स्वप्नपाठकाश्च यथावदृचिरे, तेन प्रमुदिता नृपतिपूरिताऽशेषविशेषदोहदा सा राज्ञी माघसिताऽष्टम्यां भगवन्तमजितनाथमजीजनत् , तदा षट्पञ्चाशद्दिक्कुमायः सौतिक कर्म विदधिरे, पुनश्चतुष्पटीन्द्रादिदेवदेवीगणस्तत्राऽऽगत्य भगवन्तं सुमेरुगिरिशिखरोपरि समानीय जन्माभिषेकादिमहामहं वितेनिरे । ततो नरपतिः पुत्रजन्म निशम्य महामहं विदधौ । यौवने च वयसि राजा बह्विभिर्भूपकन्यामीरूपवतीभिरेनं परिणायितवान् । ताभिः सह सांसारिक सुखं चिरमुपभुज्य सौवर्णी तनुच्छविं दधानो गजलाञ्छनः, सार्धचतुःशतधनुष्प्रमितशरीरः संसारमेनमसार मन्त्रानो लोकान्तिकदेवैः प्रतिबोधित प्राब्दिकं दानं चरमजिनवद्वितीर्य माघकृष्णनवम्यां सहस्रराजपुरुषः सह भगवानजितनाथः प्रव्रज्य, दुष्कराणि तपांसि कुर्वन् पौषसितैकादश्यां कैवन्यज्ञानमनन्तदर्शनश्चाऽध्यगच्छत् । इत्थं धर्म प्रवर्त्तयतस्तस्य सिंहसेनादिसाधवः १०००००, फन्गुप्रभृतिसाव्यः ३३००००, सुश्रावकाः २६८०००, श्राविकाश्च ५४५०००, क्रमशो द्वासप्ततिलक्षपूर्वमायुः परिपूर्य सम्मेतशिखरे पैत्रसितपञ्चम्यां भगवानेष मोक्षमगात् । एतदीयशासनं त्रिंशलक्षकोटिसागरोपमं यावच्चचाल ।
३ श्रावस्त्यां नगयाँ जितारिनृपस्य सेनाराज्ञी निजकुक्षौ फान्गुनकृष्णाऽष्टम्यां नवमवेयकाच्च्युत्वाऽवतीर्ण चतुर्दशमङ्गलमयस्वप्नसूचितं परिपूर्ण दोहदा सती माघसितचतुर्दश्यां मध्यनिशायां भगवन्तं सम्भवनाथं प्रसुषुवे । असौ चतुःशतधनुष्प्रमाणः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org